SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । तद्देशैश्वर्यमप्यूरीकृत्य तिष्ठेर्यथासुखम् । समेत्य समये भूयाद् भूयो मे दर्शनातिथिः ॥ ६९६ ॥ प्रमाणमादेश इति प्रपद्य सह रक्षसा । गत्वा गगनयानेन क्रमात् पुरमवासयत् ॥६९७॥ 5 देशस्य रक्षसा भ्रान्त्वा लोकः सर्वोऽपि मीलितः । देशश्च सुवश्चकं किं न स्याद्देवनिर्मितम् ||६९८ || रक्षोऽपि तत्र तं भूपं विनिवेश्य यथागतम् । जगाम स्वस्थचक्रे च भूपः सर्व सुनीतितः ॥ ६९९ ॥ जलालोकेच संलग्ना प्रजा सर्वा नृपेऽभवत् । 10 उपतापहरा तस्मिन् रक्ताकर्षणतत्पराः ॥ ७०० || अहो शंखनृपो धन्यो यः परोपकृतौ परः । अचिरात् प्रीतिपात्राय राज्यं मित्राय दत्तवान् ॥७०१ ॥ मित्रं विधातुं धाताऽपि न राजानमलं कचित् । अपूर्वोऽयं विधिर्भूपो मित्रं राजानमादधे ॥७०२ ॥ 15 इतश्च श्रीशंखभूपः श्रीमत्पोतनपत्तने । शशास न ( अ ) परान् पौरवासिलोकाननाकुलः ॥७०३ ॥ श्रीराम इव सर्वत्र न्यायतः पूजितोऽभवत् । उच्चचार वचः क्वापि वैदेहीति कदापि न ॥ ७०४ || कुन्देन्दुविशदं यस्य यशः प्रसरदम्बरे । 20 भुवनोपरि किं रेजे श्वेतक्षीमवितानवत् ॥७०५ ॥ न्यायाज्जनानुरागोऽस्मात् संपत्सम्पत्तिरद्भुता । दानं ततो यशस्तस्मात्सर्वमस्योत्तरोत्तरम् ॥७०६ ॥ असौ विसूत्रयामास बुद्धिसूत्रेण शात्रवम् । किं कोऽपि गुडसाध्येऽर्थे विषयीकुरुते विषम् ॥७०७ ॥ 25 अथोपेत्य नृपाः केऽपि धन्याः कन्या उपायने । उपादाय मुदा तेन भुभ्रूजा पर्यणाययन् ॥७०८|| Jain Education International For Private & Personal Use Only ૦૨ www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy