________________
द्वितीयः प्रस्तावः ।
राजाऽपि मन्त्रि-सामन्तैर्देवीभिः सह संमतम् । विधाय सौधे नीत्वाऽसौ स्वासने तं न्यवेशयत् ॥६७२॥ अलिके तिलकं तस्य चान्दनं विदधे नृपः । भाग्यावासस्थिरीकारे किल शासनपट्टिकाम् ॥६७३॥ 5 शिरो विधृत्य वामेन पाणिना दक्षिणेन तु।
स न्यधादक्षराणीव तिलकोपरि तन्दुलान् ॥६७४॥ अवनम्रशिराः किञ्चिन्नतो भूपभुवं नृपः। अनु तं मन्त्रि-सामन्ताः नता पौरजना अपि ॥६७५॥
निःस्वाना दध्वनुर्नान्दीप्रवृत्तौ मङ्गलध्वनिः । 10 उल्ललास नृपस्त्रीणां बन्दिनां च जयारवः ॥६७६॥
श्रीपतेः श्रीरिवार्धागाभाजिनी कुम(मा)रस्य सा। अवाप पट्टदेवीत्व (स्वा)भिषेकममुना सह ॥६७७॥ पुरा-कर क(व)रग्राम-धाम-कोशा-श्व-हस्तिनः ।
किं चान्यदखिलं तस्मै दत्तवान् भूपतिः स्वयम् ६७८॥ 15 स्वयं सर्वविदेवैषा(ष) शिक्षाऽनोऽस्ति तन्नृपः ।
ददौ न शिक्षा किं लेखशालामर्हति शारदा ॥६७९॥ सामन्त-मन्त्रिमुख्यस्य राजलोकस्य भूपतिः । पौराणां च पुरोऽवादीत् भो लोकाः! धूयतामिति ॥६८०
असौ वैदेशिकः कोऽपि भूपोऽभूदिति चेतसि । 20 मा कुरुध्वं यतः पूषाऽन्यदिनेऽपि दिनेश्वरः ॥६८१॥
कुलप्रमागतं राज्यं स्यादयं न हि निश्चयः । सर्वत्र श्रूयते यस्माद वीरभोज्या(ग्या)वसुन्धरा ॥६८२॥ सिंहानां सात्त्विकानां च समैकैव व्यवस्थितिः।
यत्र क्षेत्रे वजन्त्येते तेषां पित्रर्जितं हि तत् ॥६८३॥ 25 मत्तोऽप्यधिकमेवा, गणयध्वं गुणाधिकम् ।
असौ सिंह इव स्वीयभुजोपार्जितमत्ति यः ॥६८४॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org