SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः। देशवासी समस्तोऽपि लोकोऽस्तोकभिया मम । आदाय जीवितान्याशु काकनाशं पलायितः ॥६४६॥ तदादि राक्षसद्वीपादागत्यागत्य कर्हिचित् । क्रीडाम्यमा सजातीयैः श्रीडास्थानमिदं ततः ॥६४७॥ 5 सौभाग्यसुन्दरी साऽपि भूपशुद्धान्तमागता। जैनदर्शनिनां पार्थेऽश्रौषीद्ध कदाचन ॥६४८॥ श्रावधर्म समाराध्यापहृते वत्सरद्वयीम् । प्रपाल्यायुर्विपद्येयं जाता मदनमञ्जरी ॥६४९॥ रक्तोऽप्यहं कुमारीति नाहमेतामपाहरम् । 10 जाते स्वयंवरे नूनं कोऽपि संपरिणेष्यति ॥६५०॥ परस्यैतत्पतिभावं न सहेऽहमिति तत्कुधा। उपानयमिमामत्र स्त्रीवैरं यत् फलेग्रहि ॥६५१॥ कुमारभाग्यविस्फूर्त्या साहसेनासमेन ते । तुष्टोऽस्मि तदिमां वत्स! समुदह कुलोद्वह ! ॥६५२॥ 15 राज्यमप्यस्य देशस्य स्वीकुरु स्वीकुर प्रजाः। निवसन्ति यथा ग्रामा अगरा नगराणि च ॥६५३॥ ओमित्युक्त्वा पुनः प्राह यदि सप्तदिनान्तरे । आनयामि न तां वनौ तद्विशामि विशांपतेः ॥६५४॥ इति प्रतिज्ञामाधाय विधातुं न विलम्बनम् । 20 युक्तं स्याहेशवासार्थ स्थितस्यादस्यमेव तत्(?)॥ [युग्मम् ] प्रत्यर्पियामि श्रुत्वेति कन्यामुच्यावसत्यपि (?) । उद्बोढा मां न वेत्येष क्षणमक्षिणता भवत् (१) ॥६५६॥ वामं तदाऽस्याः पस्पन्दे लोचनं दुःखमोचनम् । शुश्राव रावं तत्कालमशोकेऽशोकपक्षिणः ॥६५७॥ 25 निमित्तद्वितयेनैषा मनीषा हितकारिणा। स्वस्मिन् संभाषयामासानुकूलं दैवमस्ति यत् ॥६५८॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy