________________
द्वितीयः प्रस्तावः । समेत(तस्त)वसौ प्रातस्यसि स्वयमेव तत्।। साध्ये प्रत्यक्षलब्धेऽर्थेऽनुमिच्छ(त्स)ति सुधीः किमु ॥५९४॥ प्रत्यक्षो न्यगदद् यक्षः संशयं मा वृथा कथाः।
आखण्डलोपि यस्याने पूर्ण का रक्षसां कथा ॥५९५॥ 5 हेलया मेरुमुत्पाट्य यो नरः कुरुते करे।
तस्य सिद्धार्थधरणे सुभु ! किं वद कौतुकम् ॥५९६॥ तदा त्वदर्थं दुःसाधमप्यूरीकृतवानयम् । इन्दिरार्थमपां नाथमश्नादच्युतो यथा ॥५९७॥
किं च त्वदर्थ चेदस्याशुभं स्याच्छुभमेव तत् । 10 तत्याज सीताहेतो[:] दशास्योऽपि दशाननीम् ॥५९८n
मन्दाक्षमन्दाक्षरवागुवाच न्यञ्चदानना । प्राणा ममैतदायत्ता वञ्चनावश्चनं परम् ॥५९९॥ इति प्रीतिरसोल्लासवशप्रमुदितात्मनाम् ।
व्यतीयाय सुखेनाहोरात्रं तेषां क्षणादपि ॥६००॥ 15 बभाषे राक्षसोऽश्येत्य शंखं रेरे! नराधम !। मुमूर्षुस्त्वमिहायातस्तदिएं स्मर दैवतम् ॥६०१॥ प्रत्युत्तरयते यावत् कुमारस्तावदम्बरात् । देव्येत्य निबिडं बदूध्या भूमौ राक्षसमक्षिपत् ॥६०२॥
शकोऽवादीवया देवि ! किमिदं विहितं हहा। 20 अद्यापि मम दोईण्डकण्डूतिस्तवद(तावदा)स्थिता ॥६०३॥
देव्याह घरस! ते भाग्यानुभावेनैव साहसम् । अकार्षमन्यथा काऽस्ति शक्तिमें रक्षसो ग्रहे ॥५०४॥ पलादः प्राह मां नाथ! विमोचय दयामय !।
दुर्विलसितमीहक्षं न भूयः करवाण्यहम् ॥६०५॥ 25 शंखः प्राह पलाद् ! स्वां मोचयामि मया सह ।
युध्यस्वातुच्छवाहास्ति न छलं महतां रणे ॥६०६॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org