________________
नाभिनन्दनोद्वारप्रबंधः। ततः कर्माधिकं तात! न कोऽपि लभते नरः । परदोऽनुवृत्तित्वादेते अल्पन्ति स्वस्प्रियम् ॥१६८॥ तच्छुत्या गोपतिः कोपतिरस्कृश्य(स्कृत)मनाः स्थितः।
अचिन्तयत्सभाऽध्यक्षं मानो मे खण्डितोऽनया ॥१६९॥ 5 तद्ने पातयाम्येनां तनयामपि वैरिणीम् ।
यदाज्ञाखण्डमादन्यन्मरणं भूभुजां न हि ॥१७०॥ ध्यात्वेति तां नृपः प्रोचे पापे! चेत्कर्मणः फलम् । सोऽश्नुते तदात्मीयकर्मणः फलमाप्नुहि ॥१७१।।
साऽपि हर्षेण सोत्कर्ष पतित्वा पादयोः पितुः । 10 प्राहाबालमतिर्वाला प्रमाणं तातभाषितम् ॥१७२॥
तस्यां गतायां भूपाल(लो)मूलारक्षमथादिशत् । यः कोऽपि दु:खिना सीमां तं कंचन समानय ॥१७॥ सोऽपि प्रणम्य नगरेऽन्विग्यन्नथ चतुष्पथे ।
तमेव खेचरं कुष्ठिरूपिणं समलोकयत् ॥१७॥ 15 अचिन्तयदिदं दु:खिजनताशीर्षशेखरः ।
नृपेणानायितो यादृक् तागेव निरीस्यते ॥१७॥ तमुत्पाट्य नरैः सोऽपि सायं भूपपुरोऽनयत् । भूपोऽपि वीक्ष्य ताक्षं दु:खिनं मुमुदेतराम् ॥१७६॥
ऊचे च मत्सुतापाणिग्रहणं कुरु मन्मतम् । 20 सोऽप्याह कुष्ठिना साई किं हास्य क्रियते विभो ! ॥१७७॥
न हास्यं किंचिदप्यत्र जामाताऽसि यतो मम । माननीयः सुताकान्तो नोपहास्यः कचिद्भवेत् ॥१७८|| कुष्ठी प्राह ततः कोऽयं विचारो विबुधस्य ते। .
कुष्टिनो म्रियमाणस्य यत्कन्या दीयते मम ॥१७९।। 25 केयं रूपेण रम्भाssभा गलत्कुष्ठः क चास्म्यहम् ।
यदर्य सामो न स्यात् करेण-बरयोरिव ॥१८०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org