________________
माभिनन्दनोद्धारप्रबंधः । गृहीत्वा स्वगृहं गच्छन् चिन्तयामास चेतसि । इयद्भिर्वासरैस्तावल्लब्धमेतन्नृपात्फलम् ॥१५५॥ विक्रीय तदमुं कुर्वे मूल्येनास्याद्य भोजनम् ।
उपभुकमिदं न स्यात्ताहक तृप्तिकरं पुनः ॥१५६॥ 5 स निर्भाग्यः शाकपत्रहट्टे गत्वाऽथ तत्क्षणात् । विक्रीणोते मातुलिङ्गं कस्यापि वणिजः करे ॥१५७॥ प्राप्तः कोऽपि मातुलिङ्गं तदेवादाय मूल्यतः । पणिम् भूपतिमारामुपायनमुपानयत् ॥१५८॥
कृत्वा करे बीजपूरं नृपो वीक्ष्य च सादरम् । 10 तदेवेदं विनिश्चैको (चिक्ये) रत्नछिद्रेण लाञ्छितम् ॥१५९।।
पप्रच्छ शालकं कल्ये मया यद्वीजपूरकम् । तव दत्तमभूद्भद्र ! भवता तत्कथं कृतम् ॥१६०॥ स आह यञ्चिरात्प्राप्तं त्वत्तस्ताडतरोरिव ।
फल न भक्षणीयं स्याद्विक्रीतं तन्मया ततः ॥१६॥ 15 विसृज्य स सभां राजाऽप्यन्तःपुरमुपागमत् ।
दर्शयित्वा मातुलिङ्गं पट्टदेवीमभाषत ॥१६२॥ देवि! पश्य निजमातुरभाग्यगलगर्जितम् । यवत्रासोरकोटिमूल्यं सुरत्नं निहितं मया ॥१६३॥
मयेदं तु तव भ्रातुर्दत्तं कल्यतनेऽहनि । 20 आसीत्तेन करेणात्तं नात्तं तत्त्वमजानता ॥१६४०
विक्रीतं विपणौ तस्मात्पुनर्मत्पार्श्वमागतम् । यथोर्मिनिर्गतं सत्वं पुनरप्येति वारिधिम् ॥१६५॥ तद् देवि ! किमहं कुवें तव भ्रातुरभाग्यतः ।
दियतो(सतो)ऽप्यन्तरायः स्यान्मम कश्चिदचिन्तितः॥१६६॥ 25 आविष्कृत्य च तद्रने राक्षा राझ्या अदर्शि तद् ।
प्रत्यक्षं साऽपि बीस्याशु तथेति प्रति(स्य)पचत ॥१६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org