________________
कवीश्वरश्रीधनपालप्रणीता
॥ वीरस्तुतिः ॥
( संस्कृत-प्राकृता )
सरभसनृत्यत्सुरयुवतिकुचतटत्रुटितहारतारकितम् । जायं सिद्धत्थनरिंदमंदिरं जस्स जम्मम्मि ॥ १ ॥ [ जातं सिद्धार्थ नरेन्द्र मन्दिरं यस्य जन्मनि ॥ ] बुद्ध्वाऽवधिना निजजन्ममज्जने हृदयभावमशनिभृतः । लीलाइ चलणकोडीइ चालिओ जेण सुरसेलो ॥ २ ॥
[ लीलया चरणकोट्या चालितो येन सुरशैलः ॥ ] येन च वाल्ये विबुधो विवर्धमानः सविभनं नभसि । हणिऊण मुट्ठिणा वामणीकओ कुलिसकढिणेणं ॥ ३ ॥
[ हत्वा मुष्टिना वामनीकृतः कुलिशकठिनया ॥ ] सुरपतिपुरतो विवृतिं वितन्वता विततवाङ्मयं येन । जयं जयस्स विजोवएससमए महच्छरियं ॥ ४ ॥
[ जनितं जगतो विद्योपदेशसमये महदाश्चर्यम् ] मातापित्रोः प्रेमानुबन्धमधिकं विबुध्य यः स्थितवान् । दिव्वालंकारफुरंत विग्गहो चत्तसंगो वि ॥ ५ ॥
[ दिव्यालङ्कारस्फुरद्विग्रह स्त्यक्तसङ्गोऽपि ॥ ] येन परित्यज्य जरन्तृणमिव राज्यं समं सुहृत्स्वजनैः । बूढो दढनियमभरो लीलाइ गिरिंदरुंदयरो ॥ ६॥
[ व्यूढो दृढनियमभरो लीलया गिरीन्द्र विस्तीर्ण (? रुन्द्र ) तरः ॥ ] सङ्गमकसुरतरुण्यः स्वगात्र सौन्दर्यविजितरतिरूपाः । अभत्थंतीओ दर्द थेवं पि न जेण गणिआओ ॥ ७ ॥ [ अभ्यर्थयन्त्यो दृढं स्तोकमपि न येन गणिताः ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org