________________
३०
२ - वृद्धिद्वारम् । विधिसमर्थनम् ।
[गाथा-८ यतःलोकेऽपि"कृषि-वाणिज्य-सेवा-भोजन-शयना-ऽऽसन-विद्या-साधनगमन-वन्दना-ऽऽदिकं च द्रव्य-क्षेत्र-काला-ऽऽदि-विधिना
विहितम् पूर्ण-फलवत्, विधि-पक्षस्य
नाऽन्यथा, सामग्री-वैकल्यात् ।" समर्थनम् । यदुक्तम्- उपदेश-पदा-ऽऽदौ :
आसण्ण-सिद्धिआणं विहि-परिणामो उ होइ सय-कालं । विहि-चाओ, अ-विहि-भत्ती अ-भव्य-जिअ-दूर-भव्वाणं ॥ ॥ धण्णाणं विहि-जोगो विहि-पक्खा-ऽऽराहगा सया धण्णा । विहि-बहु-माणी धण्णा विहि-पक्ख-अ-दूसगा धण्णा ॥ ॥ विहि-सारं चिअ सेवइ, सद्धालू सत्तिमं अणुट्ठाणं । दव्या ऽऽइ-दोस-णिहओ वि पक्खवायं वहइ तम्मि ॥" लोकेऽपि श्रूयते :
"विधि-पूर्व कृतं कार्य सम्पूर्ण-फल-सिद्धये । विपरीतं च तुच्छं स्याच् ऐष्ठि-नन्दनयोरिव ॥"[ ]
तद् - विध्य ऽ-विध्योः सा-ऽपेक्षत्वे ___ "काञ्चन-पुरं नगरम् । द्वौ श्रेष्ठि-सुतौ द्रव्या-ऽर्थिनौ- एकं दृष्टा-ऽन्तौ ।
सिद्ध-पुरुषं भक्त्या भजतः स्म । एकदा तुष्टेन तेन सम्यग्-विधि-सहितानि तुम्बी-फलानि स-भावाणि अर्पितानि । तथाहि :
“ “शत-वार-कृष्टे क्षेत्रे निरा-ऽऽतप-स्थले उक्त-नक्षत्रवार-योगे वाप्यानि । वल्ली-निष्पतौ च कियन्ति बीजानि सङ्ग्रह्य, स-पत्र-पुष्प-फल-वल्ली क्षेत्र-स्थैव दह्यते, तद्-भस्म एक-गद्या-ऽऽणक प्रमितं चतुष्-षष्टि-गद्याऽऽणक ताम्र-मध्ये
क्षिप्यते, जात्यं हेम स्यात् ।" 18 - इच्छाऽनुयोगः कर्तुः, “जं सक्कइ तं कीरइ, जंण वि सक्कइ तं मणे ठवइ” ।
यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org