________________
* आत्माद्वैत-ज्ञानाद्वैतनिराकरणम् * परतत्त्वमभ्युपगतं भवति बौद्धैः. तदा भव-भवविगमयोः = संसार-मोक्षयोः विभेदो मुख्यः = निरुपचरित: कथं || युज्यते ? अर्थान्तरे ह्यविद्या-वासनादौ तत्त्वे भेदके सति तद्भेद: स्यात् । तदसत्त्वे तु न कथञ्चिदित्यर्थः ॥१६/७॥ पुरुषाद्वैते विशिष्टबोधमात्रे वा तत्त्वे प्रत्यक्षबाधापीत्याह -> 'अग्नी'त्यादि।
अग्नि-जल-भूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥१६/८॥ अग्नि-जल-भूमयो वैषयिकसुखस्यापि दुःखरूपत्वात् परितापकरा: = तत्त्वतो दुःखदा भवे = संसारे यद्
कल्याणकन्दली किञ्चाऽऽत्माद्वैतमते त्वेकेनापि कर्मण्यशुभे कृते सर्वेषां शुभानुष्ठानविधायिनामपि तीव्रदुःखाभिसम्बन्धः स्यात्, आत्मन
सूत्रकृताङ्गे -> एवमेवेत्ति जप्पंति मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं तिव्वं दुक्खं नियच्छइ ।। ८- [श्रुत स्कं.अ.१। सु.१०] इति । किञ्च यदि तावदद्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति नाऽद्वैतम् । अथ
। तथापि नतरामद्वैतम्, अप्रामाणिकाया असिद्धेरभावात् [आ.९] इति व्यक्तमुक्तं जयन्तभट्टेन न्यायमञ्जर्याम् । अर्थान्तरे = पुरुष-ज्ञानव्यतिरिक्ते परमार्थसति हि अविद्या-वासनादौ = वेदान्तिसम्मतेऽविद्यापदार्थे बौद्धाद्यभ्युपगते च वासनादौ तत्त्वे भेदके सति तद्भेदः = संसारमोक्षभेदः स्यात् ।
तदसत्त्वे = वस्तुसत्कर्मविरहे तु न कथञ्चिदिति ! इदमेवाभिप्रेत्य ज्ञानाद्वैतनयनिरसने योगबिन्दौ -> बोधमात्रेऽद्वये तत्त्वे कल्पिते सति कर्मणि । कथं सदाऽस्या भावादि नेति सम्यग्विचिन्त्यताम् ॥४७७।। - इत्युक्तम् । अस्याः = मुक्तेरिति, यथोक्तं प्रमाणवार्त्तिके -> नित्यं सत्त्वमसत्त्वं बाहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ।।८-[३/३] इति ।
इदमेवाभिप्रेत्य साङ्ख्यसूत्रेऽपि -> वामदेवादिमुक्तौ नाऽद्वैतम् <- [१/१५७] इत्युक्तम् । न च वामदेवादिमुक्तिरसिद्धेति वक्तव्यम्, 'वामदेवो मुक्तः शुकदेवो मुक्तः' [म.भा.शांतिपर्व-३३३] इत्यादिना महाभारते तत्प्रतिपादनात् । 'पुण्यवान् स्वर्गे जायते पापी नरके' इत्यादिव्यवस्थानुरोधादपि पुरुषनानात्वमव्याहतम्, यधोक्तं साङ्ख्यसूत्रे -> जन्मादिव्यवस्थातः पुरुषबहुत्वम् <- [१/१४९] इति । तदुक्तं वैशेषिकसूत्रेऽपि -> व्यवस्थातो नानात्मानः - [ ] इति । विज्ञानाद्वैतखण्डनमपि -> न विज्ञानमात्रं, बाह्यप्रतीतेः । तदभावे तदभावाच्छून्यं तर्हि - [१/४२-४३] इति साङ्ख्यसूत्रादिभ्योऽवसेयम् । एतेन -> तस्माद्विज्ञानमेवास्ति, न प्रपञ्चो न संसृतिः - कू.पु.२/२/३९] इति प्राणवचनमपि प्रत्याख्यातम् । तदुक्तं तत्त्वसङ्ग्रहेऽपि -> एकज्ञानात्मके पुंसि बन्ध-मोक्षौ ततः कथम् ? - [३३३] इति । 'आत्मैवेदं सर्वं ७/ २५/२] इति छान्दोग्योपनिषद्वचनं 'ब्रह्मैवेदं सर्वं' २/१७] इति नृसिंहोपनिषद्वचनं 'नेह नानास्ति किञ्चन' [४/४/ २९] इति बृहदारण्यकोपनिषदादिवचनं तु वैराग्यायोपकल्पते । इदमेवाऽभिप्रेत्य साङ्ख्यसूत्रे -> न श्रुति-विरोधो, रागिणां वैराग्याय तत्सिद्धेः - [६/५१] इत्युक्तम् ।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अग्नि-जल-भूमयः परितापकराः यद् भवे अनुभवसिद्धाः, रागादयश्च रौद्राः लोके असत्यवृत्त्यास्पदम् ॥१६/८॥
= પુરુષસંબંધી અદ્વૈત. [અર્થાત પુરુષ સિવાય જરાતમાં બીજું કશું જ ન હોય તેવું] વૈદાની દ્વારા સ્વીકારાયેલ પરતત્ત્વ પુરુષાત જ જ્યારે વાસ્તવિક હોય, અથવા બૌદ્ધો દ્વારા સ્વીકારાયેલ પતન્ય રાગાદિવાસનાશૂન્ય બોધસ્વલક્ષણસ્વરૂપ જ જ્યારે વાસ્તવિક હોય ત્યારે સંસાર અને મોક્ષનો મુખ્ય = ઉપચારરહિત ભેદ કેવી રીતે ઘટી શકે ? પુરુષસ્વરૂપ કે જ્ઞાનસ્વરૂપ પરતત્ત્વથી ભિન્ન એવું અવિદ્યા-વાસના વગેરે ભેદક તત્વ હોય તો જ સંસાર અને મોક્ષનો ભેદ થઇ શકે. [કે અવિદ્યાવિશિષ્ટ પુરુષ અથવા વાસનાવિશિષ્ટ જ્ઞાન = સંસાર અને અવિદ્યાશૂન્ય પુરુષ અથવા વાસનારહિત શુદ્ધ જ્ઞાન = મોક્ષ.] પરંતુ સંસાર અને મોક્ષનો ભેદ કરનાર અવિદ્યાવાસના વગેરે જ ન હોય તો કોઈ પણ રીતે સંસાર અને મુકિતને વાસ્તવિક ભેદ ઘટી ન શકે. [૧૬ /૭].
પુરુષાત અથવા વાસનાશૂન્ય કેવલબોધ જ તત્ત્વ = વાસ્તવિક છે - આવું માનવામાં પ્રત્યક્ષબાધા પણ છે - એવું ગ્રંથકારશ્રી | छ.
ગાથાર્થ :- અગ્નિ, પાણી, પૃથ્વી પરિતાપ કરનાર છે. કેમ કે સંસારમાં તે રીતે તે અનુભવસિદ્ધ છે. અને રાગ વગેરે રૌદ્ર છે, કારણ કે અસત્પ્રવૃત્તિના કારણ તરીકે લોકમાં અનુભવસિદ્ધ છે. [૧૬/૮]. 1 ટીકાર્ય :- વૈષયિક સુખ પણ દુઃખસ્વરૂપ હોવાથી અગ્નિ, પાણી, પૃથ્વી દુઃખદાયી છે, કેમ કે સંસારમાં પ્રત્યક્ષથી તે રીતે તે પ્રતીત - અનુભવસિદ્ધ છે. રાગ, દ્વેષ અને મોહ રૌદ્ર-દારુણ છે, કારણ કે ખરાબ પ્રવૃત્તિઓના મૂલ કારણ તરીકે તે | १. मुद्रितप्रती 'च' इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org