SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ३६२ षोडशं षोडशकम् तथाभव्यत्वमीमांसा तस्यां चित्रायां चैव नानाप्रकारायामेव सत्यां नान्यथा, एकस्वभावायां योग्यतायां फलभेदाऽसिद्धेः । दृश्यते च | द्रव्य क्षेत्र-काल- भावप्रक्रमेण तीर्थकराऽतीर्थकर प्रत्येकबुद्ध - स्वयं बुद्धादिरूपः फलभेदः । तस्मात् तन्नियामकं | योग्यतावैचित्र्यमवश्यमाश्रयणीयमिति नियमात् = नियमेन परिभावनीयं = सर्वैः प्रकारैः चिन्तनीयं एतत् = त्रय जीव-कर्म भव्यत्वरूपं विद्वद्भिः सूरिभि: तत्त्वदृष्ट्या आगमापनीतविपर्ययमलया प्रज्ञया उच्चैः = अत्यर्थम् । = कल्याणकन्दली इति | नायमेनां विना यतः || १६४ ॥ - इति । अयं कर्मबन्धः | योग्यतामन्तरेणाऽपि कर्मबन्धाङ्गीकारे मुक्तस्यापि कर्मसंयोगापत्तिः । तस्मादवश्यमेष्टव्या स्वाभाविक्येव योग्यता । तस्यानादिमती सा च मलनात् मल उच्यते ॥ १६८ || | योगबिन्दौ व्यक्तम् | योग्यतैव परैः दिदृक्षादिपदेनोच्यते, यथोक्तं योगबिन्दी -> दिदृक्षा- भवबीजादिशब्दवाच्या तथा तथा । | इष्टा चान्यैरप्येषा मुक्तिमार्गावलम्बिभिः || २६९ ॥ - इति । मुक्तिसमये विनिवृत्तिमत्, अन्यथा मुक्तस्यापि कर्मबन्धापत्तेः । तदुक्तं योगदृष्टिसमुच्चये • दिदृक्षाद्यात्मभूतं तन्मुख्यमस्य निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः || २००|| ←- इति । कर्माऽदृष्टपूर्वाद्यपराभिधानप्रधानपरिणतिः कर्मबन्धरूपा । -> | तन्नतिः = Jain Education International I तन्नियामकं = तीर्थकरातीर्थंकर प्रत्येकबुद्धादिरूपफलभेदनियामकं योग्यतावैचित्र्यं अवश्यमाश्रयणीयम् । यदि च योग्य| त्वमेकस्वभावं स्यात् तदा तीर्थकराऽतीर्थकरादिभेदः सिद्धान्तोक्तो विघटेत । न हि ऋजुसूत्रादयः पर्यायनयाः कारणभेदं विना कार्यभेदं मन्यन्ते, अन्यथा एकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसङ्गेन कारणान्तरकल्पनावैयर्थ्यप्रसङ्गात् । परिभावनीयं | जीव- कर्म भव्यत्वरूपं = नानाजीव-विचित्रवस्तुसत्कर्म तथाभव्यत्वस्वरूपम् । इदमेवाभिसन्धाय पञ्चसूत्रे -> तहाभव्वत्ताइभावओ, विचित्तमेअं तहाफलभेएण, नाविचित्ते सहकारिभेओ, तदविक्खो तओत्ति । अणेगंतवाओ तत्तवाओ। स खलु एवं इहरहेगंतो मिच्छत्तमेसो, न इत्तो ववत्था, अणारिहमेअं, संसारिणो उ सिद्धत्तं, नाबद्धस्य मुत्ती सहत्थरहिआ < - [५ / ३] इत्यादि । अत्र च श्रीहरिभद्रसूरिभिरेव -> 'समाने भव्यत्वादौ कथमेतदेवम् ? इत्याह- तथाभव्यत्वादिभावात्, | तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह विचित्रं एतत् = तथाभव्यत्वादि । कुतः ? इत्याह तथा फलभेदेन | कालादिभेदभाविफलभेदेनेत्यर्थः । समाने भव्यत्वे सहकारिभेदात् फलभेदः इत्याशङ्कापोहायाह - नाविचित्रे तथाभव्यत्वादौ सहकारि| भेदः । किमिति ? इत्याह तदपेक्षः तकः इति तदतत्स्वभावे तदुपनिपाताभावादिति । अनेकान्तवादस्तत्त्ववादः सर्वकारण| सामर्थ्याऽऽपादनात् । स खलु अनेकान्तवाद एवं = तथाभव्यत्वादिभावे । इतरथैकान्तः सर्वथा भव्यत्वादेः तुल्यतायाम् । ततः किमित्याह मिथ्यात्वमेव एकान्तः । कुतः ? इत्याह- नातो व्यवस्था, एकान्तात् भव्यत्वाऽभेदे सहकारिभेदस्याऽयोगात्, तत्कर्मताभावात् कर्मणोऽपि कारकत्वात्, अतत्स्वभावस्य च कारकत्वाऽसम्भवादिति भावनीयम् । अत एवाह अनार्हतं एतत् एकान्ताश्रयणम् । प्रस्तुतप्रसाधकमेव न्यायान्तरमाह - संसारिण एव सिद्धत्वं नान्यस्य कोऽयं नियमः ? इत्याह-नाबद्धस्य मुक्तिः तात्त्विकी, इत्याह- शब्दार्थरहिता बन्धाभावेन <- [ पृ. १७/१८] इत्यादि व्याख्यातम् । योगबिन्दौ अपि -> सांसिद्धिकमिदं ज्ञेयं सम्यक् चित्रं च देहिनाम् । तथाकालादिभेदेन बीजसिद्ध्यादिभावतः || २७५ || सर्वथा योग्यताऽभेदे तद| भावोऽन्यथा भवेत् । निमित्तानामपि प्राप्तिस्तुल्या यत्तन्नियोगतः || २७६ || अन्यथा योग्यताऽभेदः सर्वथा नोपपद्यते । | निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् || २७७ || योग्यता चेह विज्ञेया बीजसिद्ध्याद्यपेक्षया । आत्मनः सहजा चित्रा तथा | भव्यत्वमित्यतः ॥२७८|| - इत्यादिकम् । यथोक्तं उपदेशपदेऽपि तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । | फलभेया तह कालाइयाणमक्खेवगसहावं ॥ ९९९ ॥ - इति । ललितविस्तरायामपि भव्यत्वं नाम सिद्धिगमनयोग्यत्वम्, | अनादिपारिणामिको भावः । तथाभव्यत्वमिति च विचित्रमेतत्, कालादिभेदेनाऽऽत्मनां बीजादिसिद्धिभावात्, सर्वथा योग्यताऽभेदे टीडार्थ :આત્માથી ભિન્ન અવિદ્યા વગેરે સાથે સંબંધ = કર્મબંધ થવાની જીવની યોગ્યતા છે. કર્મના પુદ્ગલોને ગ્રહણ કરવાનો જીવસ્વભાવ છે કે જે અનાદિપારિગામિકભવ્યત્વસ્વરૂપ છે. તે સહજમલસ્વરૂપ છે અને મોક્ષસમયે સર્વથા નિવૃત્તિ પામે છે. આવી કર્મબંધયોગ્યતા પણ અનેક પ્રકારની હોય તો જ ઉપરોકત બધું ઘટી શકે. બાકી નહિ; કારણ કે જીવોની એકસ્વરૂપે કર્મબંધયોગ્યતા હોય તો ફલભેદ ઘટી ન શકે. પરંતુ દ્રવ્ય, ક્ષેત્ર, કાલ અને ભાવને આશ્રયીને તીર્થંકરસિદ્ધ, અતીર્થંકરસિદ્ધ, પ્રત્યેકબુદ્ધસિદ્ધ, સ્વયંસંબુદ્ધસિદ્ધ વગેરે સ્વરૂપ ફલભેદ મોક્ષમાં દેખાય તો છે જ. માટે તેની નિયામક કર્મબંધયોગ્યતાગત વિચિત્રતાવિવિધતા અવશ્ય સ્વીકારવી પડે. આગમથી જેનો મલ-દોષ દૂર થયેલ છે તેવી પ્રજ્ઞાસ્વરૂપ તત્ત્વદષ્ટિથી વિદ્વાન આચાર્ય ભગવંતોએ નિયમા સર્વ પ્રકારે જીવ, કર્મ અને નથાભવ્યત્વ- આ ત્રણ તત્ત્વનું અત્યંત ચિંતન કરવું જોઈએ. - = - For Private & Personal Use Only = www.jainelibrary.org
SR No.004834
Book TitleShokshaka Prakarana Part 2
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages250
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy