________________
५२ द्वितीय-षोडशकम
38 जिनाज्ञास्वरूपद्योतनम् 88 प्राप्तसङ्गतिकं बुधस्योपदेश्यमेव स्पष्टमाह → 'वचने त्यादि ।
वचनाराधनया खलु धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वश्चैतदेवाऽस्य ॥२/१२॥ वचनाराधनया खलु = आगमाऽऽराधनयैव, खलुशब्द: एवकारार्थः, धर्मः श्रुत-चारित्ररूप: सम्पद्यते । तदबाधया तु महाकष्टकारिणोऽपि अधर्म इति = हेतोः इदं विधि-निषेधरूपं वचनं धर्मगुह्यं = धर्मरहस्यं सर्वस्वं = सर्वसार:
कल्याणकन्दली - किन्त्वमलं मनः ।। - [यो.सा.२/२४] इति योगसारवचनं, तथा -> अज्झवसिएण बंधो, सत्ते मारेज्ज । एसो बंधसमासो, जीवाणं णिच्छयणयस्स ।। - [२६२] इति समयसारवचनं बुधविषयं विज्ञेयम् ।।२/११।।
प्राप्तसङ्गतिकं = अवसरसङ्गतिलक्षणाऽऽगतं, प्रतिबन्धकीभूतश्रोतृजिज्ञासाऽपगमेऽवश्यवक्तव्यत्वमवसरसङ्गतिलक्षणमामनन्ति मनीषिणः । मूलग्रन्थे दण्डान्वयस्त्वेवम् --> वचनाऽऽराधनया खलु धर्मः तद्वाधया तु अधर्म इति । इदं धर्मगुह्यं अस्य चैतदेव सर्वस्वम् ।।२/१२॥ इयञ्च कारिका उपदेशरहस्योपदेशपदवृत्त्यऽधिकारविंशिकावृत्ति-धर्मरत्नप्रकरणवृत्ति-पष्ठिशतकवृत्तिमोक्षरत्नादौ उद्धृता वर्तते [उ.रह.गा.५ उ.पद.१८५ ध.प्र.९८ भा.र.मो. पृ.२८१] । एतदनुसारिणी कारिका देशनाद्वात्रिंशिकायामपि --> बचनाराधनाद्धोऽधर्मस्तस्य च बाधनात् । धर्मगुह्यमिदं वाच्यं बुधस्य च विपश्चिता ।।२/२४|| ४- इत्येवं वर्तते पञ्चाशकेऽपि --> आराहणाए तीए पुण्णं पावं विराहणाए उ । एयं धम्मरहस्सं, विण्णेयं बुद्धिमंतेहिं ।। - [७/३] इत्युक्तम् । अन्यत्रापि --> सर्वज्ञोक्तेन शास्त्रेण विदित्वा योऽत्र तत्त्वतः । न्यायतः क्रियते धर्मः स धर्मः स च सिद्भये ।। - [] इत्युक्तम् । वचनाराधना च यथास्थितोत्सगपिवादादिकमाश्रित्य तत्तत्स्थाने नानारूपा ज्ञेया ज्ञानाद्यासेवनात्मिका मोक्षसाधनानुकूला। तदुक्तं वीरभद्रसूरिभिः भक्तपरिज्ञायां -> जं सासयसुहसाहणमाणाआराहणं जिणिंदाणं । ता तीए जइअव्वं जिणवयणविसुद्धबुद्धिहिं|
६|| तं नाण-दसणाणं चारित्ततवाण जिणपणीआणं । जं आराहणमिणमो आणाआराहणं बिंति ।।७।। - सामान्यतस्तु -> नवि किंचि अणुण्णायं पडिसिद्धं वा वि जिणवरिंदेहिं । एसा जिणाणमाणा कजे सचेण होयव्वं ।।७७९।। - इति उपदेशपदमवलम्ब्य वचनाराधनाऽवगन्तव्या । यद्वा -> बहुवित्थरमस्सग्गं, बहुतरमववायवित्थरं गाउं । जह जह संजमवुड्डी तह जयसू णिज्जरा जह य ।। [ ]- इति बचनमाश्रित्य । यद्वा -> बहुवित्थरमुस्सग्गं बहुविहमववायवित्थरं नाउं । लंघेऊणत्तविहि बहगणजुत्तं करिजाहि ।।१३२।। - इति दर्शनशुद्धिवचनमाश्रित्य । -> आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपमम - [ ] इत्यप्यत्र स्मर्तव्यम् । धर्मः श्रुत-चारित्ररूप इति । तदुक्तं निशीथभाष्ये --> दुविहो य होइ धम्मो सुयधम्मो खलु चारित्तधम्मो य ८- [३२९] । तद्वाधया = आगमवचनविराधनया तु महाकष्टकारिणोऽपि अधर्म इति । तदक्तं पश्चाशकवृत्ती -> एषा सर्वज्ञाऽवज्ञा परमा = प्रकृष्टा अनन्तसंसारावहेत्यर्थः -[ ] इति । युक्तश्चैतत् । यो यद्चनबाधया प्रवर्तते स तत्र द्वेषवान् भवति यथा सौगतादिरक्षपादादौ। जिनवचनविबाधाकारीति तस्य जिनद्वेषे सिद्धेऽकुशलानुबन्धित्वसिद्धि योगविन्दौ ---> तत्कारी स्यात् स नियमात् तद्वेषी चेति यो जडः । आगमार्थे तमुल्लङ्घ्य तत एव प्रवर्तते ॥२४०॥ - इति । तदुक्तं पष्ठिशतकेऽपि -> जिणआणाए धम्मो आणारहियाण फुडमहम्मत्ति । इय मुणिऊण य तत्तं जिणआणाए कुणह धम्मं ॥९१।। जं जं जिणआणाए तं चिय मन्नइ न मन्नए सेसं । जाणइ लोयपवाहे न हु तत्तं, सो य तत्तविउ ।।९२|| <-तदक्तं वीतरागस्तोत्रेऽपि -> माध्यस्थ्यमपि दौ:स्थ्याय किं पुनद्वेषविप्लव: -६/१] । तदक्तं उपदेशमालायां -> आणाए चिय चरणं, तभंगे जाण किं न भग्गं ति ? आणं च अइकंतो कस्साएसा कुणइ सेसं ? - ||५०५॥
આસાનીથી પચાવી શકે એવા યોગ્ય મહાન અતિથિને પણ માંદા માણસને આપવા યોગ્ય માત્ર મગનું પાણી આપીને ભોજનખંડમાંથી, साना १२१,
ने मानेन अपमान छ. [२/११] અવસરસંગતિથી આવેલ બુધસંબંધી ઉપદેશના વિષયને જ મૂલકારથી સ્પષ્ટ રીતે જણાવે છે કે – માસાર્થ :- વચનની આરાધનાથી જ ધર્મ છે. વચનની બાધાથી તો અધર્મ થાય છે. તેથી આ વિચન જ ધર્મનું રહસ્ય 9. धर्मनो सर्पसार पार क्यन . [२/१२]
ॐ किनवयनाराधना = धर्म <- बुधलश ॐ टाडा :- सागमनी आराधनाथी श्रुतपर्म भने यास्त्रिय याय ७. भूगमा 'खलु' २०६ मारा = ४२ अर्थमा હોવાથી પ્રસ્તુતમાં ‘જ' શબ્દનો ઉલ્લેખ કરવામાં આવેલ છે. આગમની = જિનવચનની બાધાથી = વિરાધનાથી તો મહાકટ-| ||કારીને પાણ અધર્મ જ થાય છે. તે હેતુથી વિધિનિષેધસ્વરૂપ જિનવચન એ જ ધર્મનું રહસ્ય છે. ધર્મનો સર્વ સાર પાણ જિનવચન
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org