________________
ॐ यतनायुक्तव्यापारस्य ध्यानाविरोधिता परिशुद्धमिदं नियमादान्तरपरिणामतः सुपरिशुद्धात् । अन्यदतोऽन्यस्मादपि बुधविज्ञेयं त्वचारुतया ॥१/८॥
परिशुद्धं = सर्वथा शुद्धं इदं - सदनुष्ठानं नियमात् आन्तरपरिणामतः = चारित्रमोहक्षयोपशमजन्यात्, सुष्ठ = सम्यक्त्वज्ञानमूलत्वेज परिशुद्धात् । अन्यदिति अपरिशुद्धं. अतः = अस्मात् आन्तरपरिणामात् योऽन्यः कश्चिद्धेतुः । लाम-पूजा-ख्यात्यादिः. 'तत एतदपीतरतुल्यत्वेजैव प्रतीयते. तत्राह-बुधविज्ञेयं तु = तत्त्वविद्धिरेव विज्ञेयं अचारुतया - असुन्दरवेन । त एव हि क्षीरजीरविवेचका जाग्ये इति ॥१/८||
कल्याणकन्दली अन्यत् अचारुतया बुधविज्ञेयं तु ॥१/८॥
इदं = सदनुष्ठानं प्रकृते विहितपश्चाचारस्वरूपं मुख्यतो वा यथोक्तचारित्राचारलक्षणमवगन्तव्यम्, चारित्राधिकारात । सुष्टु इति । यद्यपि ज्ञानस्य प्रकाशव्यापारे विश्राम: सम्यक्त्वस्य च तत्त्वरुचावेव पर्यवसानं तथापि प्रथमं जानाति तत उत्पन्नरुचिः। सम्यक प्रवर्तते निवर्तते वेति नियमात् चारित्रमोहक्षयोपशमजन्यस्याऽऽन्तरपरिणामस्वरूपचारित्रस्य सम्यक्त्व-ज्ञानमूलत्वेन एव सुपरिशुद्धत्वोक्तिः सङ्गच्छते । तदुक्तं मूलकारैरेव उपदेशपदे --> जाणइ उप्पण्णरूई जइ, ता दोसा नियत्तई सम्मं <- [उ.प. ५१२] इति । प्रयोगस्त्वेवं - विप्रतिपन्नं सदनुष्ठानलक्षणं चारित्रं नियमेन सर्वथा शुद्धं, सम्यग्ज्ञानसम्यक्त्वमूलकपरिशुद्धिपरिकलितचारित्रमाहक्षयोपशमजन्यत्वात्, यन्नवं तन्नवमिति व्यतिरकी, यद्वा तदुत्तरचारित्रपरिणामान्तरवदित्यन्वयी । एतेन -> 'चेष्ट द्रव्यक्रिया तुच्छा' इति बचनात्सदनुष्ठानत्वावच्छिन्नस्य परिशुद्धत्वाऽयोगः «- इत्येकान्तो निरस्तः । इत्थमेव -> 'जो किर जयणापुचो वावारो सो न झाणपडिवक्खो । सो चेव होइ झाणं जुगवं मण-बयण-कायाणं ।। <- [अ.प.गा.१६] इति अध्यात्ममतपरीक्षावचनोपपत्तेः ।
लाभ-पूजा-ख्यात्यादिः = स्वर्गादि-मनोज्ञानपानवस्रपात्रशिष्यादिप्राप्तिलक्षणलाभ-सत्कारसन्मानादिप्राप्तिलक्षणपूजा-या:कीर्तिस्वरूपख्यातिप्रभृतिप्राप्तिः ततः = अन्यस्मात् अपि सदनुष्ठानं प्रवर्तते । अपिशब्दो कार्यसामान्ये स्वातन्त्र्येणाऽन्यहेतसमुच्चयार्थमवगन्तव्यः । ततश्च सदनुष्ठानं चारित्रपरिणामान्य-लाभपूजादितोऽपि भवति । लाभ-पूजादिप्राप्तिकामनाजन्यं चारित्राचारात्मकं सदनुष्ठानमपरिशुद्धं भवतीति वाक्यभेद: कार्यः । न तु 'अन्यत् = अपरिशुद्धं अन्यस्मादपि = लाभ-पूजाख्यात्याद्यभिलाषादपि भवती'त्यर्थः कार्य:, अपरिशुद्धस्याऽन्यस्मादेव जन्यत्वेन तत्र चारित्रमोहक्षयोपशमस्याऽनपेक्षणात् । न च बाह्यवेशमात्रानिर्जरावाप्ति:, अन्तरङ्गाऽशुभाध्यवसायेन बन्धजनकेन तदपक्षयात् । तदुक्तं धर्मविन्दी ---> अशुभपरिणाम एव हि प्रधानं बन्धकारणं, तदङ्गतया तु बाह्यमिति <- [७/३०] इति । स्वर्गलाभादिप्रबलकामनायाश्चारित्रमालिन्याऽऽधायकत्वेन यत्यपेक्षयाऽपरिशद्धाशयत्वात्तज्जन्ये चारित्राचारेऽपरिशुद्धत्वोक्तिरत्र भावचारित्रापेक्षयाऽवगन्तव्या । यथासम्भवमेतस्य विषाद्यनष्ठानेन्तर्भावः कर्तव्यः, परिशुद्धस्य च तद्धेत्वनुष्ठानादौ, एकस्याऽप्यनुष्ठानस्य कर्तृभेदेन सामग्रीभेदेन वा भेदात् । तदुक्तं मूलकारेरेव योगबिन्दी -> एकमेव धनष्ठानं कर्तभेदेन भिद्यते सरुजेतरभेदेन भोजनादिगतं यथा । इत्थश्चतद्यत: प्रो विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः ।। विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । <-[यो.बि.१५३/१५४/१५५] इत्यादि
अथापरिशुद्धस्य विषानुष्ठानाद्यन्तर्भावे सदनुष्ठानत्वाऽयोग इति चेत् ? सत्यम्, परमार्थत: सदनुष्ठानत्वासम्भवेऽपि व्यवहारतः सिद्धान्तोक्तविध्यादिपरिकलितत्वात् तीर्थोच्छेदादिपरिहारनिर्वाहकत्वादितो वैतस्य सदनुष्ठानत्वोक्तिरविरुद्धैव । न च परिशुद्धापरिशुद्धयोः सदनुष्ठानयोः बहिस्तुल्यरूपत्वे कैरपरिशुद्धत्वावगमः परिशुद्धव्यावृत्ततया कर्तुं शक्यतेति शनीयम्, यतः एतदपरिशुद्धानुष्ठानं तत्त्वविद्भिरेव विज्ञेयं अचारुतया = असुन्दरत्वप्रकारक-प्रमाविषयीभूतं कर्तुं शक्यते इत्यर्थः कार्यः; न त
( શુદ્ધ અને અદ્ધિ અનુકનને કેવી રીતે જાણવા ? ” માથાર્થ :- સુપરિશુદ્ધ એવા આંતર પરિણામથી જન્ય આ સદનુમાન નિયમ સુપરિશુદ્ધ જાગવું.) આંતરપરિણામથી અન્ય! |એવા હેતુથી જન્ય સદનુમાન અન્ય = અપરિશુદ્ધ હોય છે. તેને પંડિતો જ અસુંદરરૂપે જાણી શકે છે. [૧] ] | ઢીકાર્ય :- ચારિત્રમોહનીય કર્મના ક્ષયોપશમથી જન્મ જે આંતરરિાગામ સમ્યકત્વ અને જ્ઞાનથી સંપાઘ હોવાના લીધે સારી|| રીતે પરિશુદ્ધ બનેલ છે તેનાથી જન્ય સદનમાન નિયમાં સર્વથા શુદ્ધ હોય છે. ચારિત્રમોહનીય ક્ષયોપશમ જન્મ સુપરિશુદ્ધ આંતર પરિણામ સિવાય સ્વિ-શિખ્યાદિના] લાભ, સન્માન-સત્કારસ્વરૂપ પૂજા, પ્રસિદ્ધિ ખ્યિાતિ] વગેરે કોઈક હેતુથી પણ સદનુમાન ઉત્પન્ન થઈ શકે છે, કે જે બહારથી સુપરિશુદ્ધ સદનુકાન જેવું જ દેખાતું હોય. પરંતુ તે અપરિશુદ્ધ હોય છે. તવના જાણનારાઓ જ તેને અસુંદરરૂપે જાણી શકે છે. બાલ કે મધ્યમ માણસનું કોઈ ગજું નહિ, કારણ કે બુધ જીવો જ હંસની જેમ દૂધ અને |१. मुद्रितप्रता तदपि इत्यशुद्धः पाठः, 'तस्मादपी' ति प्रत्यन्तरे ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org