________________
२ 471-11राकम
28 जिनशासने तात्विकप्रवेशविचार: de मध्यमबुद्धिस्तु गुरुलाघवज्ञानसाध्यकार्याजाचरण-सूत्रदृष्टमात्रकार्याऽऽचरणाभ्यां मध्यमाचारः । ज्ञेय इह || प्रक्रमे तत्त्वमार्गे = मोक्षाध्वनि, बुधस्तु स एव यो मार्गानुसारी = ज्ञानादित्रयानुसारी ॥१/३||
= कल्याणकन्दली - मपि निषिद्धकार्यकरणस्वभावस्याडव्याहतत्वात् । इत्यमेव 'सूत्रकृताङ्गद्वितीयश्रुतस्कन्धादावैकेन्द्रियादीनां कर्मबन्धकत्वोक्तिः सङ्गच्छते। । वस्तुतस्तु प्रकृते 'निषिद्धकार्यकारी निश्चितं बालो ज्ञेय' इत्येवान्वयोऽभिप्रेतः, न तु 'निश्चितं निषिद्धकार्यकारी बालो ज्ञेय' इत्यन्वयः । ततश्च काकतालीयन्यायेन कदाचिद्विहितकार्यकरणेऽपि न तस्मिन्नव्याप्तिः, निषिद्धकार्यकरणयोग्यत्वस्य तदानीमपि निरपायत्वात् । अत एव तस्यैव कालान्तरे विशिष्टविवेकसम्प्राप्तौ न बालत्वापत्तिः तदानीं निरुक्तयोग्यत्वप्रच्यवात् । निषिद्धकार्यकरणमप्याभोगेनैव ज्ञेयम् । ततो नानाभोग-सहसाकारादिना निषिद्भकार्यकारिणि बुधेऽतिव्याप्तिः । निषिद्धत्वमपि तत्तद्भुमिकापेक्षयाऽवगन्तव्यम् । अनेन चैत्यनिर्मापणादौ स्वयमुद्यतस्य मुनेरपि बालत्वमुपदर्शितम्, अनधिकृतप्रवृत्तिपरायणत्वात्, गृहस्थस्यैव तत्कर्तव्यतोक्तेः । तदुक्तं मूलकारैरेव पञ्चाशके -> अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो <- [पंचा.६/४२] इति । यथा चैतत्तत्त्वं तथा षष्ठे षोडशके स्पष्टीभविष्यति । अधुना मोत्कण्ठीभव । धम्मपदाभिधाने बौद्धग्रन्थेऽपि -> चरन्ति । बाला दुम्मेधा अमित्तेनेव अत्तना । करोन्ता पापकं कम्मं यं होति कटुकप्फलं || <- [५/७] इत्युक्तमत्रानुसन्धेयम् ।
गुरुलाघवज्ञानसाध्यकार्यानाचरण-सूत्रदृष्टमात्रकार्याचरणाभ्यां मध्यमाचार इति । विधि-यतनादिपरिकलितोत्सर्गिकोत्कृष्टाचारस्यापि बलवदपवादस्थाने प्रयोगे मध्यमत्वमिति भावः । श्रेणिककथानकप्रसिद्भवेश्यान्वितत्रिलोचनालयवर्त्तिसाधुवेशरजोहरणादिज्वालनप्रवृत्त-वाचंयमवरेण्यवत् विशिष्टतरविकसितविवेकदृष्टिमात्रोपधेयकर्तव्यसम्पादनेऽस्य प्रत्यलत्वं नास्ति, किंकर्तव्यमूढतयैवाभिभूतत्वमस्य तथाविधावस्थायां स्यात् । न हि गौरव-लाघवमविदक्षः प्रावचनिककार्यकारित्वं सम्पनीपद्यते अत एव बाह्यचरण-करणोद्यतत्वेऽपि निश्चयतो नैवास्य जिनशासनप्रवेशोऽपि सम्मतः । तदुक्तं सम्मतितर्के श्रीसिद्धसेनदिवाकरेण -> चरणकरणपहाणा ससमय-परसमयमुक्कवावारा । चरणकरणस्स सारं णिन्छयसुद्धं न याणंति ।। - [सं.त.कां-३/का.६७] इति । तद्भक्तिमात्रेण श्रद्धानुसारितया द्रव्यसम्यग्दृष्टिस्तु स्यात् । अनेन मतिमता गौरव-लाघवज्ञानप्राप्त्युद्यमः कर्तव्य इति दर्शितम् । धर्मरत्नप्रकरणेऽपि श्रावकस्य दीर्घदर्शित्वगुणवर्णने -> आढवइ दीहदंसी सयलं परिणामसुंदरं कजं । बहुलाभमणकेसं सलाहणिज्ज बहुजणाणं ।।<- [२२] इत्युक्तम् । एतावता गुरुलाघवचिन्तयैवाऽनुबन्धप्रधानमनुष्ठानमभिहितम् । तदुक्तं योगविन्दी
> एतद्भयग्रफलदं गुरुलायवचिन्तया । अतः प्रवृत्तिः सर्वैव सदेव हि महोदया ।।२२०|| - इति । अन्यत्रापि -> अप्पेण बहुमेसज्जा, एयं पंडियलक्षणं । सञ्चासु पडिसेवासु. एयं अट्ठपयं विऊ ।।<- [व्यवहारभाष्यवृत्ती द्वितीयोद्देशे उद्धृता] इत्युक्तम् । अत एव सम्मतितांद्यध्ययनादावविशोधिकोटिदोषदृष्टपिण्डोपभोगादेरपि गत्यन्तरविरहेऽनुज्ञा संयमिनामुपदर्शिता । तदक्तं निशीथपीठिकाचूर्णी -> दंसणपभावगाणि सत्याणि सिद्धिविणिच्छय-सम्मतिमादि गेण्हंतो असंधरमाणो जं अकप्पियं पडिसेवति । जयणाए, तत्थ सो सुद्धो अपायच्छित्ती भवतीत्यर्थः -- [गा.४८६ पृ.१६२] । आय-व्ययतुलनातत्परवणिग्जनदृष्टान्तमपि समये सुप्रसिद्धमेतद्वोधनाय । तदुक्तं निशीथभाष्योपदेशमालादो -> तम्हा सब्याणुन्ना सञ्चनिसेहो य पवयणे नत्थि । आयं वयं तल्लिज्जा. लाहाकाञ्च वाणियओ || -२०६७/३९२]। एतदनुवादरूपेणैव टीकाकताऽपि मार्गद्वात्रिंशिकायां → निषेधः सर्वथा नास्ति विधिर्वा सर्वधागमे । आयं व्ययञ्च तुलयेल्लाभाकांक्षी बणिग्यथा ।। -[३/५] इत्युक्तम् । शिवभूत्यादेस्तु ।
→ आरंभइ किर असकमवि किंचि, सिवभूइन्च न एसो सम्मारंभो महामोहो <- [११९] इति धर्मरत्नप्रकरणवचनात अशक्यनिषिद्धकार्यकारित्वेन मोहोदयापेक्षया बालत्वमेव, न तु सूत्रदृष्टमात्रकार्याऽऽचरणेन मध्यमबुद्धित्वम, बहुतरव्ययाविनाभाविनः । सूत्रद्रष्टमात्रकार्यस्य मध्यमबुद्धिकर्तकाचारगोचरत्वेनाउनभिमतत्वात. तादशव्ययस्य मध्यमविवेकदष्टिविषयतया तज्ज्ञाने तदाचरणायोगादिति विभावनीयं पर्युपासितगुरुकुलैः ।
ज्ञेय इति पदमन्त्यदीपकन्यायेनाग्रेप्युभयत्र योज्यम् । एवमेव 'तत्त्वमार्गे = मोक्षाध्वनि' इत्यपि तेनैव न्यायेनाग्रे । उभयत्रान्वेयम् । ततश्चातिवयोवृद्धस्याऽपि विवेकविज्ञानविकलस्य बालत्वं अल्पवयस्कस्यापि बज्रस्वाम्यादेविशिष्टतरविवेकविज्ञानान्विततया बुधत्वं न दर्घटम । मार्गानुसारी = ज्ञानादित्रयानुसारी = स्वभूमिकोचिततत्तत्सम्यग्ज्ञान-दर्शन-चारित्रत्रितयलक्षणમધ્યમબુદ્ધિ તેને જાણવો કે જેના આચાર મધ્યમ કક્ષાના છે. મધ્યમબુદ્ધિના આચારની મધ્યમકક્ષા બતાવવાનો મતલબ એ છે કે ગૌરવલાઘવજ્ઞાનથી અર્થાત્ લાભ-નુકશાનના વિચારથી સાધી શકાય તેવા કાર્યનું આચરણ-અમલ કરવા માટે મધ્યમબુદ્ધિ અસમર્થ છે. તે તો આગમમાં જે બતાવ્યું હોય તે જ કાર્યનો અમલ કરશે. માટે મોક્ષમાર્ગને વિશે મધ્યમ આચારવાળા એવા તેને મધ્યમબુદ્ધિ તરીકે વાગવો. १. दृश्यतां सूत्रकृताङ्ग-द्वितीय श्रुतस्कन्ध चतुर्थाध्ययनम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org