________________
* भावयज्ञविचारः ॐ |विधिशुद्धिद्धाराऽऽज्ञाराधनलक्षणभावपूजागर्भितत्वात्, सद्गृहिणः = सद्गृहस्थस्य जन्मजः फलं इदं परमं = प्रधानं. आजन्मार्जितधजस्यैतावन्मात्रसारत्वात् । अभ्युदयस्य = स्वर्गादः अव्यवच्छेदेज सन्तत्या नियमात् = निश्चयेज अपवर्गतरोः = मोक्षवृक्षस्य बीजं एतत् ॥६/१४||
कल्याणकन्दली इति युक्तमेव, द्रव्यस्तवस्यापि उक्तविधिशुद्धिद्वारा = जिनोक्त-प्राग्यावर्णितविधि-यतना-बहुमानादिविशुद्भिद्वारा आज्ञाऽऽराधनलक्षणभावपूजागर्भितत्वात् ।
यत्त वीतरागस्तोत्रे --> वीतराग ! सपर्यातस्तवाऽऽज्ञापालनं परं - [१९/४] इति श्रीहेमचन्द्रसूरिभिरुक्तं तत्त केवलद्रव्यस्तवांशमुद्दिश्योक्तमित्यवगन्तव्यम् । एतेन -> दुविहा जिणिंदपूआ दब्बे भावे अ इत्थ बोधव्वा । दब्बेहिं जिणपूआ, जिणआणापालणं भावे ||- [१९१] इति सम्बोधप्रकरणे मूलकृदुक्तमपि व्याख्यातम् । वस्तुतस्तु प्रकृते द्रव्यस्तव-भावस्तवयोमिथोऽनुविद्धत्वमवगन्तव्यम् । यथोक्तं स्तवपरिज्ञायां > दचत्थय-भावत्थयरूवं एवमिय होति दट्ठव्वं । अण्णोण्णसमणुविद्धं णिच्छयतो भणियविसयं तु ।।१००|| - [पंचा.६/२७] इति । न चैवं द्रव्यस्तवव्यपदेशानुपपत्तिरिति वाच्यम्, द्रव्यप्राधान्येन | तदुपपादनादिति व्यक्त भक्तिद्वात्रिशिकावृत्ती [५/९] ।
जन्मनः फलं इदं = जिनभवनं प्रधानमिति । तदक्तं श्रीरत्नमन्दिरगणिभिः उपदेशतरङ्गिण्यां → रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थं स्वधनेन शुद्धमनसा पुंसा सदाचारिणा । वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्योतितम् ।। [२/३] यावत्तिष्ठति जैनेन्द्रं मन्दिरं धरणीतले । धर्मस्थितिः कृता तावज्जैनसौधविधायिना ।। - [२/पृ.११०] इति । जिनालयगतवित्तस्याऽक्षयताऽपि ज्ञेया, यथोक्तं पश्चाशके → एकंपि उदगबिंद जह पक्खित्तं महासमुइंमि । जायइ अक्खयमेवं पूया जिणगुणसमुद्देसु ।। - [४/४७] इति । सम्बोधप्रकरणेऽपि -> एगमवि उदगबिंदू जह पक्खित्तं महासमुद्दम्मी । जायइ अक्खयमेवं पूया वि हु वीयरागेसु ।।१९७।। - इत्युक्तम् । तदुक्तं पूजाविंशिकायामपि -> इक्कंपि उदगबिंदू जह पक्खित्तं महासमुइंमि । जायइ अक्खयमेयं, पूया वि जिणेसु विन्नेया ।।१७।। इति । आजन्मार्जितधनस्यैतावन्मात्रसारत्वादिति । तदुक्तं चारित्रसुन्दरगणिनाऽपि आचारोपदेशे -> क्षेत्रेषु सप्तसु वपन् न्यायोपात्तं निजं धनम् । साफल्यं कुरुते श्राद्धो निजयोर्धन-जन्मनोः ।। - [६/२४] इति । अत एव श्रावकः सप्तक्षेत्र्यां स्वधनं वितरति वपति अक्षयं च करोति । तदुक्तं भक्तपरिज्ञाप्रकीर्णके -> निअदबमपुवजिणिंदभवणजिणबिंब-वरपइट्ठासु । |विअरइ पसत्यपुत्थय-सुतित्थ-तित्थयरपूआसु ||३१|| इति । तदुक्तं दानकुलकेऽपि -> जिणभवण-बिंब-पुत्थय-संघसरूवेस सत्तखित्तेसु । ववि धणं पि जायइ सिवफलयमहो अणंतगुणं ।।२०।। इति । अनर्थकारिणोऽर्थस्य सार्थकत्वाक्षयत्वकरणादेव श्रावकस्य धन्यत्वमभिमतमाचार्याणाम् । इदमेवाभिप्रेत्य उपदेशतरङ्गिण्यां रत्नमन्दिरगणिभिः → श्रीमज्जैनगृहे जिनप्रतिकृती जैनप्रतिष्ठाविधौ श्रीसार्वस्नपने जिनार्चनविधौ श्रीसङ्घपूजादिके । श्रीमच्छासनलेखने च सततं श्रीतीर्थयात्रामुखे येषां स्वं विनियोगमेति धनिनां धन्यास्त एव क्षितौ ।। [२/५] जिनभवन निर्माप्यं सफलीकर्तुं निजोल्लसल्लक्ष्मीम् । धन्यैः स्वपरश्रेयःपुण्योद्यद्बोधिलाभाय । - [तरङ्ग-२/१/२] इत्युक्तम् । अन्यत्राऽपि -> दव्वं तमेव मन्ने जिणबिंबपइट्ठणाइकज्जेसु । जं लग्गइ तं सहलं दुग्गइजणणं हवइ सेसं - [ ] इत्युक्तम् । > कर्तव्या जिनपूजा, न खलु वित्तस्याऽन्यच्छुभतरं स्थानम् - [७९] इति ललितविस्तरावचनमपि भावनीयम् । उपदेशतरङ्गिण्यां रत्नमन्दिरगणिभिः अपि -> सारं तदेव सारं, नियुज्यते यज्जिनेन्द्रभवनादौ । अपरं पुनरपरं धनं, पृथ्वीमलखण्डपिण्डं वा ।। - [२/पृ.११०] इत्युक्तम् । प्रकृते जिनभवनञ्चोपलक्षणं जिनबिम्बप्रतिष्ठा-पूजादेः, यदक्तं प्रशमरती उमास्वातिवाचकवरैः -> चैत्यायतनप्रस्थापनानि कृत्वा च शक्तित: प्रयतः।। पूजाश्च गन्ध-माल्याधिवासधूपप्रदीपाद्याः ॥३०५।। - इति । प्रकृते -> चैत्यानि = जिनबिम्बानि, आयतनानि = तेषामेवागाराणि, प्रस्थापना = तेषामेव प्रकृष्टमहाविभूत्या वादित्रगीतनृत्यतालानुचर-स्वजनपरिवारादिकया प्रतिष्ठा - इत्यवचूरिलेशः । अन्यत्रापि -> जिणबिंबपइट्ठासु सुहकज्जेसु लग्गइ जं च । तं चिय दव्यं सहलं, दुग्गइजणणं हवइ सेसं ॥ एवं नाऊण सया जिणवरबिंबस्स कुणह सुपइटुं । पावेह जेण जर-मरणवज्जियं सासयं ठाणं ।। -[ ] इत्युक्तम् । षष्ठिशतकप्रकरणेऽपि -> जिणपूयणपत्थावे जइ को वि सवाण देइ धणकोडि । मुत्तूण तं असारं, सारं वियरंति जिणपूयं ।।८९।। - इत्येवं जिनार्चायाः प्राधान्यमुक्तम् । धम्मपदाभिधे बौद्भग्रन्थेऽपि -> वीतरागेसु दिन्नं होति महाफलं - [२४/२३] इत्युक्तम् । છે. છતાં પણ ઉપરોક્ત વિધિ શુદ્ધિ દ્વારા તીર્થકરની આજ્ઞાની આરાધના થાય છે. જિનાજ્ઞાની આરાધના એ ભાવપૂજાસ્વરૂપ છે. તેનાથી ગર્ભિત = ઘટિત હોવાથી સર્જન પણ ભાવપૂન બને છે. સહસ્થના જન્મનું આ પ્રધાન ફળ છે, કારણ કે જન્મથી માંડીને કમાયેલી
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org