________________
११६ पञ्चमं षोडशकम्
8 अभ्युच्चयपक्षाङ्गीकारः
= नियमात् चरमे पुद्रलपरावर्त्ते औदारिक- वैक्रिय-तैजस-कार्मण प्राणाऽपान-भाषा-मनोभिरेतत्परिणामपरिणतसर्वपुद्गलग्रहणरूपे भवति। अभ्युच्चयपक्षोऽयं यावता सार्वतन्त्रिक्यपुनर्बन्धकक्रियाऽन्यपुद्गलपरावर्त्ते न भवति, मोक्खासओ वि 'जन्नत्थ होइ' (विं. विं. ४ / २) इत्यादिजा मोक्षाशयस्यापि तत्र प्रतिषेधादित्यन्यत्र विस्तरो दृष्टव्यः ||५ / २ || | कुतः पुनर्हेतोश्चरमपुद्गलपरावर्त्तो भवतीत्याह - 'स' इत्यादि ।
स भवति कालादेव प्राधान्येन सुकृतादिभावेऽपि । ज्वरशमनौषधसमयवदिति समयविदो विदुर्निपुणम् ॥५/३॥
कल्याणकन्दली
=
=
एतत्परिणामपरिणत सर्वपुद्गलग्रहणरूपे औदारिक- वैक्रिय-तैजस-भाषाऽऽनप्राण-मनः कर्मवर्गणापरिणामपरिणतानां सर्वेषां || पुद्गलानां विवक्षितकालमादौ कृत्वा यावना सामस्त्येनैकजीवस्य ग्रह- निसर्गौ सम्पद्येते तावत्कालपरिमाणके, पुद्गला ग्रह- निसर्गाभ्यां परिवर्तन्ते परापरपरिणतिं लभन्तेऽस्मिन्निति व्युत्पत्तेरिति <- [उ.पद-४३४ वृ.] उपदेशपदवृत्तौ श्रीमुनिचन्द्रसूरयो व्याचक्षते । तस्य स्थूल सूक्ष्मादिरूपता च ओराल- विउब्विय-तेय-कम्म-भासाणुपाणु-मणएहिं । जीवस्स सयलपोग्गलगहणद्धा धूलपरियो । ओरालियाइ एक्क्कभेयओ सव्वपोग्गलग्गहणं । कालेण जेण सो पुण भण्णति इह सुहुमपरियट्टे ॥ - [ ] इत्यादितोऽवसेया । | अभ्युच्चयपक्षोऽयं नियमेनान्वयकारी पक्षोऽयं, न तु समुच्चयपक्षः । इदमेवाभिप्रेत्य योगबिन्दी - तृणादीनाञ्च भावानां योग्यानामपि नो यथा । तदा घृतादिभाव: स्यात् तद्वद्योगोऽपि नान्यदा । नवनीतादिकल्पस्तत्तद्भावेऽत्र निबन्धनम् । पुद्गलानां परावर्त्तश्वरमो न्यायसङ्गतः ॥ <- • [ ९५ / ९६] इति । तदेव भावयति यावता = येन कारणेन सर्वतन्त्रिकी नामभेदेन सर्वयोगदर्शनाभिमता अपुनर्बन्धकक्रिया = अपुनर्बन्धकभवनप्रक्रिया, क्षत्रियादिवर्णभेदो नात्र बाधाविधायी परं कालभेदस्तु प्रतिबन्धकार्येवेत्याह अन्यपुद्गलपरावर्त्ते अचरमपुद्गलपरावर्त्ते न = नैव भवति । अत्रैव संवादमाह 'मोक्खासओ' इत्यादि । सम्पूर्णा च गाथा चरमावर्तविंशिकायां मुक्खासओ वि नन्नत्थ होइ गुरुभावमलपहावेण । जह गुरुवाहिविगारे न जाउ पत्थासओ सम्मं ॥ - - [४ / २] इत्येवमुपलभ्यते । प्रकृतेरनिवृत्ताधिकारत्वात् इति गम्यम् । तदुक्तं गोपेन्द्रेण --> अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसः तत्त्वमार्गेऽस्मिञ्जिज्ञासाऽपि प्रवर्तते । क्षेत्ररोगाभिभूतस्य यथाऽत्यन्तं विपर्ययः । तद्वदेवाऽस्य विज्ञेयस्तदावर्तनियोगतः < [यो.बि. १०१ / १०२] इत्यादि । तदुक्तं भगवद्गीतायामपि जिज्ञासुरपि योगस्य शब्दब्रह्माऽतिवर्तते <- - [६ / ४४ ] | 'मनोरथोऽपि नो मन्दभाग्यानां जायते महान् ' [ ] इत्युक्तिरप्यत्र स्मर्तव्या । | अनेनाऽपुनर्बन्धकादेरेवात्राधिकारित्वमावेदितम् । तदुक्तं योगशतकेऽपि अहिगारी पुण एत्थं विणेओ अपुणबंधगाइति । तह तह गियत्तपगईअहिगारो णेगभेओत्ति ।। अणियत्ते पुण तीए एगंतेणेव हंदि अहिगारे । तप्परतंतो भवरागओ दढं अणहिगारी त्ति ॥ - [९/१०] इति । तदुक्तं योगदृष्टिसमुच्चयेऽपि -> चरमे पुद्गलावर्ते, क्षयश्वास्योपपद्यते - [३१] इति । अस्य | = भावमलस्य । तस्य भावरोगरूपत्वात्तत्क्षये भावारोग्यकल्पा लोकोत्तरतत्त्वप्राप्तिर्युज्यत एवेति भावनीयम् । ललितविस्तरायामपि योग्यता चाऽऽफलप्राप्तेस्तथाक्षयोपशमवृद्धिः लोकोत्तरभावामृतास्वादरूपा वैमुख्यकारिणी विषयविषाभिलाषस्य । न चेयमपुनर्बन्धकमन्तरेणेति भावनीयम् <- [पृ. ४९] इत्युक्तम् ॥५ / २||
->
->
=
વૈક્રિય, તૈજસ, કાર્મણ, શ્વાસોચ્છ્વાસ, ભાષા અને મનોવર્ગણારૂપે ઔદારિક વગેરે પરિણામથી પરિણત સર્વ પુદ્ગલોનું ગ્રહણ કરવામાં જેટલો સમય થાય તેને પુદ્ગલપરાવર્ત કહેવાય. પુદ્ગલપરાવર્તમાં ૨૦ કોટાકોટિ સાગરોપમપ્રમાણ અનંતા કાળચક્રો પસાર થઈ જાય. તેવા અનંત પુદ્ગલપરાવર્ત ભૂતકાળમાં દરેક જીવે પસાર કરેલા છે. જે જીવનો સંસાર = ભવસ્થિતિ ૧ પુદ્દગલપરાવર્તકાળ જેટલી બાકી હોય તે જ જીવને લોકોત્તર તત્ત્વની પ્રાપ્તિ થાય છે.]
પ્રસ્તુત વાત અણુચ્ચયપક્ષ તરીકે સમજવી [સમુચ્ચયપક્ષરૂપે નહિ], કેમ કે સર્વદર્શનસંબંધી અપુનર્બંધકક્રિયા અન્ય [=અચરમ] પુદ્ગલ પરાવર્ત કાળમાં સંભવિત નથી. આનું કારણ એ છે કે ચરમાવર્તવિંશિકા ગ્રંથમાં ‘અચરમાવર્ત કાળમાં મોક્ષનો આશય પણ ન હોય' આવું કહેવા દ્વારા અચરમાવર્તી કાળમાં મોક્ષના આશયનો પણ પ્રતિષેધ કરવામાં આવેલ છે. આ વાતનું વિસ્તારથી નિરૂપણ અન્ય સ્થાને જોવાની મહોપાધ્યાયજી ભલામણ કરે છે. [૫/૨]
વિશેષાર્થ :- અમ્યુચ્ચય પદનો અર્થ છે નિયમા સંબંધ થવો. સમુચ્ચયપક્ષનો અર્થ છે યથાસંભવ સંબંધ થયો. પ્રસ્તુતમાં ક્ષીણપ્રાયસંસારસ્થિતિવાળા ચરમાવર્તી જીવને નિયમા લોકોત્તરતત્ત્વસંપ્રાપ્તિ થાય છે, નહિ કે જૈનધર્મવાળાને જ. અચરમાવર્તીને નિયમા લોકોત્તરતત્ત્વ ન જ મળે, ભલે તે જૈન
હોય. [૫/૨]
આ
સમસ્યાનું સમાધાન આપતાં સૂરિપુરંદર કહે છે કે –
‘ચરમ પુદ્ગલ પરાવર્ત શેનાથી થાય ?'
१. मुद्रितप्रती ह. प्रतौ न 'न तत्थ' इति पाठः ।
Jain Education International
->
For Private & Personal Use Only
www.jainelibrary.org