________________
१०६ चतुर्थं षोडशकम्
08 क्रोधप्रकारप्रकाशनम् ॐ अथ क्रोधकण्डूति चिह्नद्धारा लक्षयति -> 'सत्येत्यादि ।
सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत्स्फुरणम् । अविचार्य कार्यतत्त्वं तच्चिद्रं क्रोधकण्डूतेः ॥४/१३॥ सत्येतरदोषाणां - यथास्थिताऽसद्भूतापराधानां श्रुतिभावात् अन्त: प्रज्वलनद्वारा बहिश्वाऽप्रसन्नताव्यअकाऽऽकारद्धारा यत्स्फुरणं = वृद्धिश्चलनं वा अविचार्य = अनालोच्य कार्यतत्त्वं = स्वात्मनोऽत्यन्ताऽहितं दुर्गतिविपाकलक्षणं क्रोधकार्यपरिणामं तत् चिह्न = लक्षणं क्रोधकण्डूतेः = क्रोधकण्ड्वाः ॥४/१३||
कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सत्येतरदोषश्रुतिभावात् कार्यतत्त्वं अविचार्य अन्तः बहिश्च यत् स्फुरणं तत् क्रोधकण्डूते: चिह्नम् ॥४/१३॥
यथास्थिताऽसद्भूतापराधानामिति । ततश्च यथास्थितापराधश्रवणाज्जायमान इषत्क्रोधस्तु विवक्षितक्रोधकण्डूतिविलक्षणः कदाचित् प्रशस्तोऽपि स्यात्, अयन्त्वेकान्तेनाऽप्रशस्त इति व्यज्यते । एतेन विष्णुकुमार-सुनक्षत्र-सर्वानुभूतिप्रभृतीनामेतादृशक्रोधकण्डूतिबहिर्भावो ध्वनितः ।
अनालोच्य स्वात्मनोऽत्यन्ताऽहितं दर्गतिविपाकलक्षणमिति । यथा पूर्वभवे साधुताडनपरिणामः चण्डकौशिकजीवस्य, स्कन्दकसूरे: पालकदाहपरिणामः, अग्निशर्मणो गुणसेनमारणपरिणामो वा । प्रथमो मन्दानबन्धी, द्वितीयस्तु मध्यमानबन्धी, तृतीयश्चोत्कृष्टानुबन्धीति विभागः । दर्शितक्रोधपरिणतिश्च क्वचित् देशभेदमूला यथा हिन्दुकेषु मूलाणकादीनां, क्वचिद्देहवर्णभेदनिमित्ता यथा पश्चिमदेशीयानां पूर्वदेशीयेषु, क्वचिच्चापमानालम्बना यथा हिटलरस्य यहुदीप्रजासु । यद्वा विवक्षितक्रोधकण्डूति: निवर्तनीयाsनिवर्तनीयभेदाद् द्वेधा भिद्यते । यथा युगबाहोर्मणिरथोपरि क्रोधकण्ड्वा मदनरेखोपदेशान्निवर्तनीयत्वम् । अनिवर्तनीयक्रोधकण्डूतिश्च क्वचित् पराभवनिमित्ता यथाऽभव्यपालकस्य स्कन्धकसूर्युपरि, क्वचित् आजीविकोच्छेदनिबन्धना यथा स्थूलभद्रजनकं शकटालं प्रति पुरोहितस्य, क्वचित् इाहेतुका यथा चाणक्यप्रतिद्वेषिणः सुबन्धोः मन्त्रिणः, क्वचित् जातिभेदप्रयोज्या यथा सर्पनकुलादीनां इत्यादिकं द्रव्य-क्षेत्राद्यनतिक्रमेण यधागममूहनीयमवहितमानसैः । स्वसमये चायं कषायमूढत्वेन परिभाष्यते, तदुक्तं निशीथचूर्णी -> कसायमूढो कसायोदया हिताहितं इहपरलोगेसु कजमकजं वा न याणति <- [नि.भाष्य-३७०० -भाग-३-पृ.२६९] । अत एव न स धर्मयोग्यः, तदुक्तं धर्मरत्नप्रकरणे -> कूरो किलिट्ठभावो सम्मं धम्मं न साहिउं तरइ । इय सो न इत्थ जोगो, जोगो पुण होइ अकूरो ।। - [१२] इति । कृत्वा च कोपं स माद्यति, बालत्वात् । यदुक्तं सूत्रकृताङ्गे > बाले पापेहिं मिज्जती - [१/२/२/२१] इति ।
क्रोधस्य विपर्यासकारित्वं तु प्रसिद्धमेव । तदुक्तं पुष्पमालायां -> मित्तंपि कुणइ सत्तुं, पेच्छइ अहियं हियपि परिहरइ । कज्जाऽकज्जं न मुणइ कोवस्स पसंगओ पुरिसो || धम्मत्थकामभोगाण हारणं, कारणं दुहसयाणं । मा कुणसु कयभवोहं कोहं जइ जिणमयं मुणसि ।। इह लोइ च्चिय कोवो सरीरसंताव-कलह-वेराइं । कुणइ पुणो परलोगे नरगाइसु दारुणं दुक्खं ।। २९१-९२-९३] - इत्यादि । संयमिना तु विशेषतो वैश्वानरस्त्याज्य:, अन्यथा दीर्घचारित्रस्याप्युच्छेदापत्तेः । यथोक्तं निशीथभाष्ये बृहत्कल्पभाष्ये सम्बोधसप्ततिप्रकरणे च -> जं अज्जियं चरित्तं देसूणाए वि पुन्चकोडीए । तं पि कसाइयमेत्तो नासेइ नरो मुहुत्तेण ।। - [नि.भा.२७३ बृ.भा.२७१५ सं.स.६८] इति । → जं अइतिक्खं दुक्खं जं च सुहं उत्तम तिलोईए । तं जाण कसायाणं वृड्डिक्खयहेउअं सव्वं ॥१५२।। - इति भक्तपरिज्ञाप्रकीर्णकवचनमप्यत्रानुसन्धेयम् । वाल्मीकीरामायणेऽपि --> नाऽकार्यमस्ति कृद्धस्य नाऽवाच्यं विद्यते क्वचित् सुन्दरकाण्ड-५५/५] इत्येवं क्रोधस्यात्यन्तहेयतोक्ता। चरकसंहितायामपि -> नाकार्यमस्ति कुद्धस्य नावाच्यमपि विद्यते । कुशलान्नाभिनन्दन्ति कलहं समितौ सताम् || - [३/ ८/२३] इत्युक्तम् । ततः क्रोधे एवं क्रोधः कार्यः, यदक्तं याज्ञवल्क्योपनिषदि -> अपकारिणि कोपश्चेत् कोपे कोपः कथं न ते ?<- [२९] । यद्यपि कषायसजातीयत्वात् मान-मायादीनामपि पापविकारत्वमविशिष्टमेव तथापि प्राधान्यात वैश्वानरस्य સુધી તાત્વિક રીતે જિનશાસનમાં પ્રવેશ મળી ન શકે. સંયોગવશ સત્સંગ ન થાય તેવું બને પાર સત્સંગ ન ગમે- તે તો હરગીજ ન ચાલે. સાંપ્રતકાલે દરેક ધર્માત્માએ આ વાત ઉપર વિશેષ રીતે ગંભીરતાથી વિચાર કરવાની આવશ્યકતા છે. ૪િ/૧૨
હવે જોધસ્વરૂ૫ ખંજવાળને ચિહ્ન દ્વારા મૂલકારથી બતાવે છે.
ગાચાર્ય :- સાચા કે ખોટા દોષ સાંભળવાથી, કાર્યતત્વનો વિચાર કર્યા વિના, અંદર અને બહાર જે રકુરાણ થાય તે કોધરૂપી ખંજવાળનું वि छ. [४/13]
આ પ્રશરત-અપ્રશરત ક્રોધની ભેદરેખા છે ટીડાઈ :- સાચા કે ખોટા અપરાધોને સાંભળવાથી અંદર પ્રજ્વલન દ્વારા અને બહાર અપ્રસન્નતાસૂચક આકાર દ્વારા જે કુરાગ-વૃદ્ધિચલન-કંપન થાય અને તે પણ ક્રોધ કરવાના પરિણામે દુર્ગતિમાં પડવારૂપી પોતાના અત્યંત અહિતનો વિચાર કર્યા વિના-આ કોધરૂપી ખંજવાળનું
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org