SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ९६ चतुर्थं षोडशकम् 08 श्रीजयघोषसूरीश्वराभिप्रायप्रकाशनम् 808 जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति । ततश्च लोकानां बीजाधानादिधर्मसिद्धिरिति तत्प्रयोजकतया जनप्रियत्वं युक्तमित्युत्ताजार्थः ॥४/७|| ____ एवं प्राथमिकगुणरूपाणि धर्मतत्त्वस्य लिङ्गान्यभिधाय दोषाभावरूपाणि तानि वक्तुमुपक्रमते -> ‘आरोग्य इत्यादि । कल्याणकन्दली सर्वविरत्युपलम्भः फलस्थानीयश्च मोक्ष इति ज्ञेयम् । यद्वाऽन्यरीत्यापि समयाविरोधेनाङ्कुरादिभावना कार्या । मूलकारैस्तु ललितविस्तरायां संवादरूपेण -> विधिनोप्ताद्यथा बीजादङ्कुरायुदयः क्रमात् । फलसिद्धिस्तथा धर्मबीजादपि विदुर्बुधाः ।।१।। वपनं धर्मबीजस्य सत्प्रशंसादि तद्गतम् । तचिन्ताद्यङ्करादि स्यात् फलसिद्धिस्तु निर्वृतिः ।।२।। चिन्ता-सच्छ्रुत्यनुष्ठान-देवमानुषसम्पदः । क्रमेणाऽङ्कुर-सत्काण्ड-नाल-पुष्पसमा मता ॥३॥ - इत्यादयः कारिकाः समुद्धृताः । अनाख्येयत्वेऽपि स्वानुभवगम्यमिदं|| बीजाधानं भवक्षयकारितया महादरेण कर्तव्यम् । इदमेवाभिप्रेत्य उपदेशपदे -> पायमणक्खेअमिणं अणुहवगम्मं तु सुद्धभावाणं । भवक्खयकर ति गरुअं बुहेहिं सयमेव विण्णेयं ॥२३२।। - इत्युक्तम् । धर्मबीजाऽभावे तु तीर्थङ्करादिसमीपेऽपि धर्मसस्यनिष्पत्तिर्न भवितुमर्हति । यथोक्तं मूलकारैरेव उपदेशपदे -> अकए बीजक्खेवे जहा सुवासेऽवि न भवती सस्सं । तह धम्मबीयविरहे ण सुस्समाए वि तस्सस्सं ॥२२४|| आणापरतंतेहिं ता बीजाधाणमेत्थ कायव्वं । धम्मम्मि जहासत्ती परमसहं इच्छमाणे 16- इति । जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति । तदुक्तं धर्मरत्नप्रकरणे -> लोयप्पिओ जणाणं, जणेइ धम्मम्मि बहुमाणं ॥- [ध.र.प्र.गा.११] । तत्प्रयोजकतया = लोकानां बीजाधानादेः प्रयोजकतया जनप्रियत्वं गुण इति कथनं युक्तं = युक्तिसङ्गतं इति उत्तानार्थः = प्रकटार्थः = स्पष्टार्थः । अत एव जनप्रियस्य श्रीमत: सामायिकग्रहणार्धमाडम्बरपूर्वं गमनविधि: प्रोक्तः । युक्तश्चैतत् सम्यग्दर्शनादिमोक्षबीजाधाननिमित्तं शासनप्रभावनाया इष्यमाणत्वात्, तात्त्विकाऽऽराधनापरिणामस्यापि सत्यां शक्तौ शासनप्रभावनोद्देशाऽविनाभावित्वात् । अत एव प्रतिपन्नप्रतिमापरिसमाप्तौ राजादिनिवेदनपूर्व नगरप्रवेशविधानस्य तत्र तत्र प्रसिद्धत्वात् । धर्मार्थं क्रियमाणाया लोकपतेरपि शुभानुबन्धकारित्वमभिमतम् । तदुक्तं योगबिन्दौ --> धर्मार्थं लोकपङ्कितः स्यात्, कल्याणाझं महामतेः । तदर्थं तु पुनर्धर्मः पापायाऽल्पधियामलम् ।।९०|- इति । इदमेव मनसिकृत्य योगसारप्राभूते --> धर्माय क्रियमाणा सा कल्याणाङ्ग मनीषिणाम् । तन्निमित्तः पुनर्धर्मः पापाय हतचेतसाम् ।। - [८/१२] इति अमितगतिनोक्तम्। योगलक्षणद्वात्रिंशिकायां टीकाकृताऽपि --> धर्मार्थं सा शुभायापि धर्मस्तु न तदर्थिनः । क्लेशोऽपीष्टो धनार्थ हि क्लेशार्थं जातु नो धनम् ।। - [द्वा.द्वा.१०/८] इति प्रोक्तम् । ततश्च जनप्रियेण सर्वाऽपि धर्मक्रिया विशेषतः प्रायः प्रकटमेव सेवनीया । व्यतिरेके लोकगर्हितेन धर्मार्थिनाऽपि स्वकल्याणमिच्छता प्रच्छन्नमेव धर्मः कार्य इति विवेकः ।। अत्राऽस्मत्पूज्या: स्वगुरुप्रभृतिप्रदत्तसिद्धान्तदिवाकर-गच्छाधिपतिलक्षणबिरुदद्वयविभूषिताः श्रीजयघोषसूरीश्वरास्तु -> जनप्रियत्वगुणात् स्वधर्मकार्येऽन्तरायो न जायते [१], पापात्परान् निवारयति [२], सुखेनैव परान् धर्मं प्रज्ञापयति [३], सौकर्येण परेषु धर्मादरं जनयति [४], परान् धर्मे प्रवर्तयति [५], स्वकीय-परकीयलौकिकलोकोत्तराणि कार्यान्तराणि स्वल्पायासेन सम्पादयति [६], सदा निर्भयो भवति [७], सदा सद्बुद्धिपर: सन् सद्बुद्धिदो भवति [८], स्वतः परतो वा परेषां क्लेश-कलहादिकमपाकृत्य शान्ति स्थापयति [९], दुर्जनान् वशीकरोति [१०], तत्प्रतिकूलोऽपि सलज्जः सन् ततो बिभ्यति [११], जनेषु देव-गुरु-धर्मगौरवं जनयति [१२], द्रुतं धर्मकर्मसु साहाय्यं लभते [१३], स्वाश्रिताननायासेन धर्मे प्रवर्तयति स्थिरीकरोति च [१४], स्वाश्रितानां धर्मकृत्येषु विघ्नादिकमक्षेपेण दूरीकरोति [१५], धार्मिकादिक्षेत्रे बलवान् जायते [१६], मनोऽप्रसन्नतादिकं नैवाऽऽप्नोति [१७], स्वाश्रितोऽपि जन: चेत:स्वस्थतादिकमुपलभते [१८], प्रायो धर्मान्न भ्रश्यति [१९], निन्दा-लोकविरुद्धसेवनादिदोषादविलम्बन निवर्तते [२०], दाक्षिण्यौदार्यादिगुणगणश्चः प्रायः सानुबन्धः सन् प्रवर्धते [२१] - इत्यादिकं व्याचक्षते ॥४/७॥ પ્રસાસ્પદ બને છે અને તેથી લોકોને બીજધાનાદિ ધર્મની સિદ્ધિ થાય છે. માટે તેનું પ્રયોજક = પરંપરાકારણ હોવા રૂપે જનપ્રિયત્ન पुल छ- म २५४ अर्थ नागपो. [४/७] ' વિશેષાર્થ :- પોતાના યશ, કીર્તિ વગેરે નિમિત્તે જે જનપ્રિયત્ન ઉત્પન્ન કરવામાં આવે છે તે અવિશુદ્ધ હોય છે. બીજના હૃદયમાં ધર્મબીજ વાવવા માટે કે શાસનપ્રભાવનાના ઉદ્દેશથી ઉચિત વ્યવહાર, સૌમ્ય વાણી, પ્રસન્નમુદ્રા, ન્યાયપ્રિયતા, શિષ્ટાચારપાલન, પરાર્થવૃત્તિ વગેરે આચારવિશુદ્ધિ દ્વારા જે જનપ્રિયત્ન જન્મે છે તે નિરૂપાધિક હોય છે અને તેવું જનપ્રિયત્ન ધર્મતત્વના લિંગ તરીકે માન્ય બને. તે માટે લોકનિંદા કરાવે તેવો અનુચિત વ્યવહાર, કઠોર-મદાંધ વચન, અન્યાયી સ્વાર્થવૃત્તિ, આચારભંગ, વ્રતભંગ, વ્યભિચાર-વ્યસનાદિથી દૂર રહેવું, કેમ કે લોકમાં અપ્રિય થવાના લીધે પોતાની અને ધર્મની પણ નિંદા કરીને લોકો બોધિદુર્લભ બને, પોતાને પણ કલેશ થાય. બાકીનો अर्थार्थमा २५४ । छे. [४/७] Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.004833
Book TitleShokshaka Prakarana Part 1
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy