SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ નયપરિચ્છેદ ૧૭૫ एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयाः । प्रमाणैकदेशत्वात तेषां ततो १'जावइया वयणपहा, तावइया चेव हुंति नयवाया । जावइया नयवाया, तावइया चेव परसमया' (गा. ३/ ४७) वस्त्वैकधर्मपर्यवसितानां प्रमात्रभिप्रायाणां नयत्वाभिधानात्, वस्तुनश्चानन्तधर्मत्वादनन्ता नया सम्भवन्ति । तथापि प्राक्तनाचार्यैः सर्वसङ्ग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्तनयाः प्रतिपादिता: नैगमादयो वक्ष्यमाणनामानः । कथमेषां सकलाभिप्रायसङ्ग्राहकत्वमिति चेत्, उच्यते, अभिप्रायस्तावदर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराभावात् । अर्थश्च सामान्यरूपो विशेषरूपो वा, शब्दोऽपि वढितो व्युत्पत्तितश्च, व्युत्पत्तिरपि सामान्यनिमित्तप्रयुक्ता तत्कालभाविनिमित्तप्रयुक्ता वा स्यात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽप्याद्ये नयचतुष्टयेऽन्तर्भवन्ति । तत्रापि ये परस्परविशकलितो सामान्यविशेषाविच्छन्ति तत्समुदायरूपो नैगमः । ये पुनः केवलं सामान्यं वाञ्छन्ति तत्समूहसंपाद्यः सङ्ग्रहः । ये पुनरनपेक्षितशास्त्रीयसामान्यविशेषं लोकव्यवहारवीथिमवतरन्तं घटादिकं पदार्थमभिप्रेयन्ति तादृशाभिप्रायनिचयजन्यो व्यवहारः । ये पुनः सौगतादयः क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते तत्सङ्घातघटित ऋजुसूत्रः । ये रूढितः शब्दानां प्रवृत्तिमिच्छन्ति तन्निवहनिष्पाद्यः शब्दः । ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्तिमिच्छन्ति नान्यथा, तत्समूहजन्यः समभिरूढः । ये तु वर्तमानकालभाविव्युत्पत्तिनिमित्तमधिकृत्य शब्दाः प्रवर्तन्ते नान्यथेति मन्यन्ते तत्सङ्घटितः खल्वेवम्भूत इति । तदेवं न स कश्चन विकल्पोऽस्ति वस्तुगोचरो योऽत्र नयसप्तके नान्तर्यातीति सर्वाभिप्रायसङ्ग्राहका एत इति सम्यक् स्थितम् । ____ 'प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नया: अत्र प्रथमं तावल्लक्षणघटकपदसार्थक्यं विचार्यते - प्रमाणपरिच्छिन्नस्यैव वस्तुनो नयैर्विचारणा युक्ता, इत्यावेदयितुं 'प्रमाणपरिच्छिन्नस्येति वस्तुविशेषणम् । धर्मधर्मिणोरत्यंतभेदवादनिरासाय ‘अनन्तधर्मात्मલક્ષણ જણાવે છે. * नयनु सामान्य लक्षए। * પ્રમાણ દ્વારા જણાયેલી અનંત ધર્માત્મક વસ્તુના એક દેશનું ગ્રહણ કરનાર અને ઈતર અંશોનો પ્રતિક્ષેપ (ખંડન) ન કરનાર અધ્યવસાય વિશેષને “નય' કહેવાય છે. નયને અધ્યવસાય વિશેષાત્મક કહ્યા છે તેથી જણાય છે કે નય જ્ઞાનાત્મક હોવા ઈષ્ટ છે. નયના લક્ષણનું પદકૃત્ય : જે વસ્તુના અમુક અંશની વિચારણા કરવી હોય તે વસ્તુ પ્રમાણસિદ્ધ હોવી જોઈએ. અપ્રામાણિક વસ્તુ ઉપર નયવિચારણા થઈ શકે નહીં. એ જણાવવા માટે ‘વસ્તુનું 'प्रमाणपरिच्छिन्नस्य' से विशेष भूस्युं छे.. वस्तुनु, 'अनंतधर्मात्मकस्य' मे जीटुं विशेष भूडीने धर्म-या वय्येन। सत्यंत मेवाहन निरास કર્યો છે. તેમ જ આગળ લક્ષણમાં “એકદેશ” અને “તદિતરાંશ' આમ જે કહેવાનું છે એની પ્રસિદ્ધિ માટે मा विशेष छ. 32413 शनो वस्तुने निरंश माने छे. 'प्रमाणपरिच्छिन्नस्य' भने 'अनंतधर्मात्मकस्य'. १. यावन्तो वचनपथास्तावन्तश्चैव भवन्ति नयवादाः, यावन्तो नयवादास्तावन्तश्चैव परसमयाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004656
Book TitleJain Tarkabhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorUdayvallabhvijay
PublisherDivya Darshan Trust
Publication Year2004
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy