SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १४० દર્શન અને ચિંતન नयनसगाररिमेयविस्तरै-रनेकभाभिगमार्थपेशलैंः । अकृत्रिमस्वादुपदैर्जनं. जन जिनेन्द्र ! साक्षादिव पासि भाषितैः ॥ १८ ॥ न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्युपाक्षुते । तदष्टधा पुद्गलमूर्तिकर्मजं यथात्थ नैवं भुवि कचनापरः ॥ २६ ॥ न मानसं कर्म न देहवाङ्मयं शुभाशुभज्येष्ठफलं विभागशः । यदात्य तेनैव समीक्ष्यकारिणः शरण्य ! सन्तस्त्वयि नाथबुद्धयः ।। २७ ॥ द्वितीया द्वात्रिंशिका सद्धर्मवीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्याशवो मधुकरीचरणावदाताः ॥१३॥ पापं न वाञ्छति जनो न च वेत्ति पापं पुण्योन्मुखश्च न च पुण्यपथः प्रतीतः । निःसंशयं स्फुटहिताहितनिर्णयस्तु स्वं पापवत्सुगत ! पुण्यमपि व्यधाक्षीः ॥ १६ ॥ चतुर्थी द्वात्रिंशिका कुलिशेन सहस्रलोचनः सविता चांशुसहस्रलोचनः । न विदारयितुं यदीश्वरो जगतस्तद्भवता हतं तमः ॥३॥ निरवग्रहमुक्तमानसो विषयाशाकलुषस्मृतिर्जनः । त्वयि किं परितोषमेष्यति द्विरदः स्तम्भ इवाचिरग्रहः ।। ४ ॥ उदधाविव सर्व सिन्धवः समुदीर्णास्वयि सर्वदृष्टयः । न च तासु भवानुदीक्ष्यते प्रविभक्तासु सरित्स्विवोदधिः ॥ १५ ॥ षष्ठी द्वात्रिंशिका जनोऽयमन्यस्य मृतः पुरातनः पुरातनरेव समो भविष्यति । पुरातनेष्वित्यनवस्थितेषु कः पुरातनोक्तान्यपरीक्ष्य रोचयेत् ॥ ५ ॥ यदेव किंचिद्विषमप्रकल्पितं पुरातनरुक्तमिति प्रशस्यते विनिश्चिताप्यद्य मनुष्यवाक्कृति-ने पाठयते यत्स्मृतिमोह एव सः ॥ ८ ॥ यदा न शक्नोति विगृह्य भाषितु परं च विद्वत्कृतशोभमीक्षितुम् ।। अथाप्तसंपादितगौरवो जनः परीक्षकक्षेपमुखो निवतते ।। १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004635
Book TitleDarshan ane Chintan Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlalji Sanman Samiti Ahmedabad
Publication Year1957
Total Pages904
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy