SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ વિષયષદશનથી રાગ શમે છે નથી કે તેમનો હેત અવિનાશી નથી કે અજ્ઞાત નથી. મિથ્યાજ્ઞાનને પ્રતિપક્ષ (=વિરોધી) સમ્યગ જ્ઞાન છે. પ્રતિપક્ષની ભાવના અને અભ્યાસ દ્વારા દોષોનુ સમૂળ ઉમૂલન શકય છે, એટલે દેના પ્રતીકાર અનાત નથી. કોઈ એ કહ્યું છે “આસાને (=રાગ વગેરે દોષોને) પ્રતિપક્ષ હોવાથી પ્રતિપક્ષના ઉત્કર્ષ-અપકર્ષને કારણે આસ્ત્રોને હાસ-અતિશય થાય છે, પ્રતિપક્ષનો અભ્યાસ કરવાથી અને પ્રતિપક્ષ સાથે તન્મય બનવાથી કેઈક ચિત્તમાં આઅવો नाश पाभे छे' [प्रभावाति ३.२२०] 40. विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति यदा ह्येवं चिन्तयति विवेकी - असौ तरलताराक्षी पीनोत्तङ्गघनस्तनी। विलुप्यमाना कान्तारे विहगैरद्य दृश्यते । विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मज्जास्थिविणमूत्रमेद:क्रिमिकुलाकुलम् ।। अस्थीनि पित्तमुच्चाराः क्लिनान्यान्त्राणि शोणितम् । इति चर्मपिनद्धं तत् कामिनीत्यभिधीयते ॥ मेदेोग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम् ? । विष्टादृतौ नितम्बे च कोऽयं हेमशिलाभ्रमः ।। मूत्रासृग्द्वारमशुचि छिद्र क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानमहो पुंसां विडम्बना ।। प्रीतियथा निजास्योत्थं लिहतः शोणितं शुनः । शुष्केऽस्थिनि तथा पुंसः स्वधातुस्यन्दिनः स्त्रियाम् ।। व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुघुरा । कथमद्य न रागाय म्रियमाणा तपस्विनी ।। अहो बत वराकोऽयमकाले तृषित: फणी । प्रसारितमुखोऽस्माकं शोणितं पातुमागतः ॥ किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् । स्पृश्यमानो दहत्यग्निरिति कस्मै प्रकुप्यति ।। नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये । स्वकर्मफलमश्नामि कः सुहृत् कश्च मे रिपुः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004627
Book TitleNyayamanjari Part 5
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1992
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy