________________
પ્રતીત્યસમુત્પન્ન ક્ષણિક વિજ્ઞાનની સત્તતિથી બૌદ્ધો અનેક દોષ દૂર કરે છે ૧૭૯ यद्यपि च सन्तत्यन्तरपतितज्ञानजन्यमपि सन्तत्यन्तरे ज्ञानं दृश्यते, तथाऽपि न तादृशकार्यकारणभावेन सन्तानव्यवहारः प्रतिसन्धानादिकार्यनिर्वाहो वा, किन्तूपादानरूपतद्विशेषनिबन्धन एवैष निर्वहति नियमः । तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते ।
स्मृतिवत् परिहर्तव्यौ कृतनाशाकृतागमौ ।
तत्सन्तानोपसंक्रान्त्या कुसुमे वीजरागवत् । आह च
यस्मिन्नेव तु सन्ताने आहिता कर्मवासना ।
फलं तत्रौव बध्नाति कार्पासे रक्तता यथा ।। यथा यस्मिन्नेव हि कर्पासबीजे वर्णः रक्तताख्यः कृतः, तस्यैव कुसुममपि रक्तम्, नान्यस्य, तथा यस्मिन्नेव ज्ञानसन्ताने यादृशी कर्मवासना, तादृशं फलं तस्मिन्नेव सन्ताने भवति, नान्यस्मिन् ज्ञानसन्ताने इत्यर्थः । तथा च कृतहानाकृताभ्यागमदोषनिरासः ।
नित्यस्त्वात्माऽभ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनुभवति तदयमनित्य एव चर्मादिवदुक्तः स्यात् । निर्विकारत्वे तु सताऽसता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव । तदुक्तम्
वर्षातपाभ्यां किं व्योम्न: चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः ॥ इति
तस्मादुत्सृज्यतामेष मूर्धाभिषिक्तो प्रथमो मोहः आत्मग्रहो नाम । तन्निवृत्त्या चात्मीयग्रहोऽपि विरं स्यति, 'अहमेव न, किं मम' इति । तदिदमहंकारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमव निर्वाणद्वारमवलम्ब्यताम् । तस्य च मार्गः क्षणिकपदार्थनिश्चयः । क्षणिकेषु हि सर्वभावेषु निराश्रयेषु ज्ञानस्याप्याश्रयविरहात् कुतस्त्यमात्मकल्पनमिति ।
58. मोर- सा हो पाया था, १२९५ तेन नियाम आय २९ मा . અનાદિ પ્રવાહગત જ્ઞાનમાં હેતુફાભાવને પ્રવાહ છે. અને આ જ સંતાન છે એમ કહેવાય છે. અનુસંધાન આદિ કાર્યને આ નિયમ સંતાકત છે. સંતાન અનાદિ હોઈ તેમ જ તેનો વિચછેદ ન હઈ પરલેક પણ કિલટ કલ્પના નથી. જો કે એક સંતાનમાં રહેલા જ્ઞાનથી બીજા સંતાનમાં જ્ઞાન ઉત્પન્ન થતું દેખાય છે ( જેમકે ગુરુસંતતિગત જ્ઞાનથી શિષ્યસંતતિગત જ્ઞાન ઉન્ન થાય છે, તેમ છતાં તેવા કાર્યકારણભાવને ધારે સંતાનવ્યવહાર થતો નથી કે પ્રતિસંધાન આદિ કાર્યને નિર્વાહ પણ થતું નથી, પરંતુ ઉપાદાનરૂપ તેના (=કાર્યકારણ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org