________________
પરિશિષ્ટ
૧૧૧
पन्नरससु कम्मभूमीसु जावंति केइ साहू रयहरणमुहपत्तियगोच्छगपडिग्गहधारा पंचमहव्वयधारा अट्ठारससहस्ससीलंगधारा अक्खयायारचरिता ते सव्वे सिरसा मणसा मत्थएण बंदामि ।
खामेमि सव्वजीवे, सव्वे जीवा खमंत मे। मित्ती मे सव्वभूएसु, वेर मज्झ न केणई ॥१॥ एवमहं आलोइय, निदिअ गरहिअ दुगंचियं सम्म । तिविहेणं पडिक्कतो, वंदामि जिणे चउव्वीसं ॥२॥ सू. २२॥
छाया
नमश्चतुर्विशतये तीर्थंकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः । इदमेव नैर्गन्थं प्रवचनं सत्यमनुत्तरं कैवलिकं प्रतिपूर्णं नैयायिकं संशुद्धं शल्यकर्तनं सिद्धिमार्गी मुक्तिमार्गी निर्याणमार्गी निर्वाणमार्गोडवितथमविसन्धि सर्वदुःखप्रहीणमार्गः । अत्र स्थिता जीवाः सिध्यन्ति बुध्यन्ते मुच्यन्ते परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति । तं धर्म श्रद्दध प्रतिपद्ये रोचयामि स्पृशामि पालयामि अनुपालयामि । तं धर्मे श्रद्धानः प्रतिपद्यमानो रोचयन स्पृशन् पालयन्ननुपालयन् तस्य धर्मस्य केवलिप्रज्ञप्तस्याऽभ्युत्थितोऽस्म्याराधनायां विरतोडस्मि विराधनायाम् । असंयम परिजानामि संयममुपसपद्ये, अब्रह्म परिजानामि ब्रह्मोपसम्पद्ये, अकल्पं परिजानामि कल्पमुपसम्पद्ये, अज्ञानं परिजानामि ज्ञानमुपसम्पद्ये, अक्रियां परिजानामि क्रियामुपसम्पद्ये, मिथ्यात्वं परिजानामि सम्यक्त्वमुपसम्पद्ये, अबोधि परिजानामि बोधिमुपसम्पद्ये, अमार्ग परिजानामि मार्गमुपसम्पद्ये, यत्स्मरामि यच्च न स्मरामि, यत्प्रतिक्रामामि यच्च न प्रतिक्रामामि, तस्य सर्वस्य दैवसिकस्यातिचारस्य प्रतिक्रामामि । श्रमणोडहं संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा अनिदानो दृष्टिसम्पन्नो मायामृषाविवर्जकः, अर्द्धतृतीयेषु द्वीपसमुद्रेषु पग्चदशकर्मभूमिषु ये केडपि साधवो रजोहरणमुखवस्त्रिकागोच्छकप्रतिग्रहधाराः पञ्चमहाव्रतधारा अष्टादशसहस्त्रशीलाङ्गधारा अक्षताडडचारचारित्रास्तान् सर्वान् शिरसा मनसा मस्तकेन वन्दे.
"क्षमयानि सर्वान् जीवान्, सर्वे जीवाः क्षाम्यन्तु माम् । मैत्री मे सर्वभूतेषु वैरं मम न केनापि ॥१॥ एवमहमालोच्य, निन्दित्वा गर्हयित्वा जुगुप्सित्वा सम्यक् । त्रिविधेन प्रतिक्रामन्, वन्दे जिनानां चतुविंशतिम् ॥२॥ सू. २२।।
Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org