________________
प्रश्नोत्तर
१. कः पथ्यतरः ? धर्मः
२. कः शुचिरिह ? यस्य मानसं शुद्धम्
३. कः पण्डितः ? विवेकी
8.
किं दुःखम् ? असंतोषः
५. तरलं किं ? यौवनं धनं चायुः
६. किं शल्यम् ? प्रच्छन्नं यत्कृतं पापम्
७.
किं शोच्यम् ? कार्पण्यम्
८. किं प्रशस्तम् ? औदार्यम्
९. का कल्पलता लोके ? सच्छिष्यार्पिता विद्या
१०. को अक्षयवटवृक्ष ? विधिवत् सुपात्रदानम्
११. किमुपादेयम् ? गुरुवचनम्
१२. कः सर्वगुणविनाशी ? लोभः
१३. कः शत्रुः ? कामः
१४.
किं नु बलम् ? धैर्यम् १५. कस्मात् सिद्धिः ? तपसः
१६. किं अभयम् ? वैराग्यम्
१७. प्रत्यक्ष देवता का ? माता
१८. कुतो बुद्धिः ? वृद्धोपसेवया १९. के वृद्धाः ? य धर्मतत्त्वज्ञाः
२०. किं भाग्यं देहवताम् ? आरोग्यम्
२१ को मृत्युः ? य अवधानरहितत्त्वम्
२२. कः स्नेहः ? सद्भावः
૧૦