________________ : 150 : (124) तत्रत्यं रम्यशब्दमयस्वरूपमानन्दयिष्यति त्वामतः स्थेयं तावत् त्वया तत्रेत्याह हृद्येति हृद्यातोयै-मुंखरमुरजै-र्गायनानाच गीतर्गायन्तीनां गुरुगुणागणा-श्चारवैः श्राविकाणाम् / / स्वाध्यायैश्च श्रमणकृतिनां तर्कचर्चाविचारैः शब्दाद्वैते भवति भवता स्थेयमानम्य तत्र // 124 / / (अन्वयः) हृद्यातोद्यैः मुखरमुरजः गायनानाञ्च गीतैः गुरुगुणगणाँश्च गायन्तीनां श्राविकाणाम् आरवैः, श्रमणकृतिनां च तर्कच विचारैः स्वाध्यायैः शब्दाद्वैते भवति तत्र भवता आनम्य स्थेयम् / / 124 // (प्रकाशः) हृद्यातोद्यैः-मनोरमवीणादिचतुर्विधवाद्यैः, मुखरमुरजैः-अबद्धमुखमृदङ्गैः, मुखमस्त्यस्य मुखरः 'मध्वादिभ्यो रः' / 7 / 2 / 26 / इति रः, गायनानाञ्च गीतैः-गायकानां पुनः गानैः, गायतीति गायनः 'टनण' / 5 / 1 / 67 / इति टनण् गुरुगुणगणांश्चश्रीमदाचार्यवर्यसुगुणसमूहाँश्च, गायन्तीनाम्-गानं कुर्वतीनाम् , श्राविकाणाम्-श्रमणोपासिकानाम् , आरवैः-मधुरशब्दैः, श्रमणकृतिनाश्च-धीमन्मुनिमतल्लिकानां पुनः, तर्कचर्चाविचारैः-ऊहविचारणानुकूलवाक्यव्यूहैः, तरन्त्यनेन संशयविपर्ययाविति तर्कः, 'तर्क ऊहः' इतिहैमः, स्वाध्यायः-मोक्षशास्त्राध्ययनैः, शब्दाद्वैते-केवलशब्दस्वरूपे,भवति-जायमाने सति, तत्र-स्थले तस्मिन् ,