________________ : 148 : ( अन्वयः) यत् (त्वं) सर्वातङ्कोपशमनिपुण श्रीगुरुं द्रक्ष्यसि (तत्) अद्य अनर्थैः गलितम् अकलैः पापपकैः विलीनं दोषैः क्षीणम् अशिवैः गलितं दुष्टकष्टैः प्रणष्टं रोगैः रुग्णम् अनुशयैः मृतं विप्रयोगैः विनष्टम् // 122 / / (प्रकाशः ) यत्-यतः, त्वम् , सर्वातङ्कोपशमनिपुणम्समस्तसाध्वससान्त्वनसमर्थम् , सकलदरदूरीकरणदक्षमिति यावत् , ' आतङ्क-आशङ्का साध्वसं. दरः ' इति हैमः, श्रीगुरुम्श्रीमदाचार्यवर्यचरणम् , द्रक्ष्यसि-अक्षिसमक्षमापादयिष्यसि, अतः, अद्य-दिवसेऽस्मिन् , अनर्थैः--अनिष्टैः, गलितम्-पतितम् , विनष्टमितियावत् , अकलैः-कलाविरहितैः, पापपङ्क:-कलुषकर्दमैः, विलीनम्-प्रध्वस्तम् , 'विलीनाशेषपातक' इति भागवतम् , दोषैः-दुर्गुणैः, क्षीणम्-दुर्बलीभूय विनष्टम् यद्यपि ' क्षेः क्षी चाध्यार्थे ' / 4 / 2 / 74 / इत्यनेन भावकर्मभिन्नार्थ एव तस्य नः क्षेः क्षी च विधीयते परं केषाञ्चिन्मतमनुसृत्य भावेऽपि तद्विधानादत्र भावे तदवसेयम् , अशिवैः-अकल्याणैः, गलितम्-सस्तम् , दुष्टकष्टै:अधमव्यथाभिः, प्रणष्टम्-विध्वस्तम् , रोगैः-व्याधिभिः, रुग्णम्रोगैाप्तम् , अद्यरोगाणामेव रोगः सञ्जात इति न ते परेषामपकर्तुमीशा इतिभावः, 'सूयत्वाद्योदितः ' / 4 / 2 / 70 / इति तस्य नः, अनुशयैः-दीर्घद्वेषैः, ' अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः " इत्यनेकार्थसङ्ग्रहः, मृतम्-मरणमासादितम् , विप्रयोगैः-विरहैः, विनष्टम्-निर्णष्टम् , सर्वे कष्टभावा अद्य विनष्टा इति सर्वत्र शुभमेव वर्तत इत्याशयः // 122 //