________________ : 139 : नाम् , गुरुगुणैः-पूज्याचार्यमहाराजसद्गुणैः, रागम्-रक्तताम्, प्राप्ताम्- इव-अधिगताम् किम् , वैद्रुमीम्-प्रवालसम्पादिताम्, अमलाम्-स्वच्छाम् , अक्षमालाम्-नमस्कारावलीम् , मालामितियावत् , दधतम्-रक्षन्तम् , धारयन्तमितियावत् / उत्प्रेक्षा // 111 / / (112) अङ्के धर्म-ध्वजमुरुमहः-शोभमानं दधानं, श्रेयोलक्ष्म्या प्रहितमिव स-स्नेहया पुण्डरीकम् // प्रायः पद्मा-सनपरिचितं राजहंसोपसेव्यं, स्वाध्यायेना-नुगतर्वदनं ब्रह्मसब्रह्मरूपम् / / 112 // ( अन्वयः ) अङ्के सस्नेहया श्रेयोलक्ष्म्या प्रहितं पुण्डरीकमिव उरुमहःशोभमानं धर्मध्वजं दधानं प्रायः पद्मासनपरिचितं राजहंसोपसेव्यं स्वाध्यायेनानुगतवदनं ब्रह्मसब्रह्मरूपम् // 112 // (प्रकाशः) अङ्के-क्रोडे, सस्नेहया-प्रणयपरिपूरितया, श्रेयो. लक्ष्म्या -कल्याणकमलया, प्रहितम्-प्रेषितम् , पुण्डरीकमिवश्वेताम्भोजमिव, उरुमहःशोभमानम्-महातेजोराजमानम् , धर्मध्वजम्-रजोहरणम् , दधानम्-बिभ्रन्तम् , प्रायःपद्मासनपरिचितम्-बहुकालं पद्मासनाख्यप्रसिद्धासनेन बद्धासनम् , राजहंसो. पसेव्यम्-महापतिमरालसेवनीयम् , स्वाध्यायेनानुगतवदनम्सिद्धान्तपाठेन सहगताननम् , सर्वदा स्वाध्यायं सम्पादयन्तमितियावत् , ब्रह्मसब्रह्मरूपम्-निर्वाणसन्निभस्वरूपम् // 112 //