________________ श्रीहेमचन्द्राचार्यप्रणीतानि 7 यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा / काव्ये शरीरानुगता तन्मुख परिचक्षते // 8 बीजस्योद्घाटन यत्र दृष्टनष्टमिव क्वचित् / . मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुख स्मृतम् // 9 उभेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा / पुनश्चान्वेषण यत्र स गर्भ इति संज्ञितः // 10 गर्भनिभिन्नबीजार्थो विलोभनकृतोऽपि वा / क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः // 11 समानयनमर्थानां मुखाद्यानां सबीजिनाम् / / नानाभावोत्तराणां यद्भवेन्निर्वहण तु तत् // 12 नायकाख्यातस्ववृत्ताभाव्यर्थशंसिवक्त्रादिः सोच्छ्वासा संस्कृता गद्ययुक्ताख्यायिका / 13 धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा / 14 गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः / 15 अनिवद्ध मुक्तकादि / 16 एकद्वित्रिचतुच्छन्दोभिर्मुक्तकसंदानितकविशेषककलापकानि / 17 पञ्चादिभिश्चतुर्दशान्तैः कुलकम् / इति अष्टमोऽध्यायः / .