________________ 153 श्रीकाव्यानुशासनसूत्राणि दिव्यभिचारी क्रोधो रौद्रः / 14 नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभि चार्युत्साहो धर्मदानयुद्धभेदो वीरः / 15 विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं __शङ्कादिव्यभिचारि भयं भयानकः / 16 अहृद्यदर्शनादिविभावासकोचाद्यनुभावापस्मारा दिव्यभिचारिणी जुगुप्सा बीभत्सः / 17 दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्यभिचारी विस्मयोऽद्भुतः / 18 वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्त नाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः / 19 रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः / .. 20 धतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रा सुप्तौत्सुक्याऽवहित्थशकाचापलाऽऽलस्यहर्षग:प्रयप्रबोधग्लानिदैन्यश्रमोन्मादमोहचिन्ताऽमर्षत्रासाऽपस्मारनिर्वेदाऽऽवेगवितर्काऽसूयामृतयःस्थित्युदयप्रशमसंधिशबलत्वधर्माणस्त्रयस्त्रिंशयभि चारिणः / 21 ज्ञानादेतिरव्यप्रभोगकृत् / 22 सदृशदर्शनादेः स्मृतिभ्रंक्षेपादिकृत् /