________________ 146 श्रीहेमचन्द्राचार्यविरचित पूयाऽजन्यप्रमयसमया राजसूयो हिरण्या.रण्ये संख्यं मलयवल्यौ वाजपेयः कषायः / शल्य' कुल्याव्ययकवियवद्गोमय पारिहाय:, - पारावारातिखरशिखराः क्षत्रवस्त्रोपवस्त्राः // 110 // अलिंजरः कुबरकूरवेरनीहारहिञ्जीरसहस्त्रमेढाः / / संसारसीरौ तुवरश्च सूत्रशृङ्गारपदान्तस्कर्णपूराः / / 111 // नेत्रं वक्त्रपवित्रपत्त्रसमरोशीरान्धकारा वरः, केदारप्रवरौ कुलीरशिशिरावाडम्बरो गहवरः / क्षीरं कोटरचक्रचुक्रतिमिराङ्गारांस्तुषारः शर, भ्राष्ट्रापहवरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः // 112 // कर्पूरनू पुरकुटीरविहारवार__ कान्तारतोमरदुरोदरवासराणि / कासारकेसरकरीरशरीरजीर मञ्जीरशेखरयुगंधरवज्रवप्राः // 113 // आलवालपलभालपलालाः, परवलः खलचषालविशालाः / शूलमूलमुकुलास्तलतैलो, तूलकुइमलतमालकपालाः // 11 // कवलप्रवालवलशम्बलोत्पलो पलशीलशैलशकलागुलाञ्चलाः / / कमलं मलं मुसलसालकुण्डलाः, कलल' नलं निगलनीलमालाः // 115 //