________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 235 न तु य्वन्तात्' / घुतित्वां, घोतित्वा; दिद्युतिषते, दिद्योतिषते; लिखित्वा, लेखित्वा; लिलिखिषति, लिलेखिषति / वाविति किम् ? वर्त्तित्वा / व्यञ्जनादेरिति किम् ? उषित्वा / अय्व इति किम् ? देवित्वा // 25 // उति शवोऽङ्ग्यः क्तौ भावाऽऽरम्भे / 4 / 3 / 26 // उति उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च परौ भावाऽऽरम्भयोः ‘क्त-क्तवतू सेटी वा किद्वत्' स्याताम् / कुचितम्, कोचितमनेन; प्रकुचितः, प्रकोचितः; प्रकुचितवान्, प्रकोचितवान् / रुदितम्, रोदितमेभिः; प्ररुदितः, प्ररोदितः; प्ररुदितवान् प्ररोदितवान् / उतीति किम् ? श्वितितमेभिः / शवर्हाट्य इति किम् ? प्रगुधितः / भावाऽऽरम्भ इति किम् ? रुचितः // 26 // न डीङ्-शीङ्-पू-धृषि-विदि-स्विदि-मिदः // 4 // 3 // 27 // एभ्यः परौ 'सेटौ क्त-क्तवतू किद्वन्न' स्याताम् / डयितः, डयितवान्; शयितः, शयितवान्, पवितः, पवितवान्; प्रधर्षितः, प्रधर्षितवान्; प्रक्ष्वेदितः, प्रक्ष्वेदितवान्। प्रस्वेदितः, प्रस्वेदितवान् प्रमेदितः, प्रमेदितवान् / सेटावित्येवडीनः, डीनवान् // 27 // मृषः क्षान्तौ // 4 // 28 // क्षमाऽर्थान्मृषः 'सेटी क्त-क्तवतू किद्वन्न' स्याताम् / मर्षितः, मर्षितवान् / क्षान्ताविति किम् ? अपमृषितं वाक्यम् // 28 // क्त्वा // 4 // 3 // 29 // 'धातोः क्त्वा सेट् किद्वन्न' स्यात् / देवित्वा / सेडित्येव- कृत्वा // 29 // ___ स्कन्द-स्यन्दः // 4 // 3 // 30 // आभ्याम् ‘क्त्वा किद्वन्न' स्यात् / स्कन्त्वा, स्यन्त्वा // 30 //