________________ % 222 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् दशना-ऽवोदैधौद्म-प्रश्रय-हिमश्रथम् / 4 / 2 / 54 // 'एते नलुगादी कृते निपात्यन्ते' / दशनम्, अवोदः, एधः, ओमः, प्रश्रयः, हिमश्रथः // 54 // यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्छिति / 4 / 2 / 55 // 'एषां तनादीनां च धुडादौ क्छिति लुक्' स्यात् / यतः, रत्वा, नतिः, गतः, हतः, मतः, वतिः, ततः,. क्षतः / धुटीति किम् ? यम्यते / क्तिीति किम् ? यन्ता // 55 // यपि / 4 / 256 // 'यम्यादीनां यपि लुक्' स्यात् / प्रहत्य, प्रमत्य, प्रवत्य, प्रतत्य, प्रसत्य // वा मः / 4 / 2157 // 'यम्यादीनां मान्तानां यपि वा लुक्' स्यात् / प्रयत्य, प्रयम्य; विरत्य, विरम्य; प्रणत्य, प्रणम्य; आगत्य, आगम्य // 57 / / गमां क्वौ / 4 / 2 / 58 // 'एषां गमादीनां यथादर्शनं क्वौ क्लिति लुक् स्यात् / जनङ्गत्, संयत्, परीतत्, सुमत्, सुवत् // 58 // न तिकि दीर्घश्च / 4 / 2 / 59 // "एषां तिकि लुग दीर्घश्च न' स्यात् / यन्तिः, रन्तिः, नन्तिः, गन्तिः, हन्तिः, मन्तिः, वन्तिः, तन्तिः // 59 // आः खनि-सनि-जनः / 4 / 2 / 60 // "एषां धुडादौ किति आः' स्यात् / खातः, सातः, जातः, जातिः / डितीत्येव- चक्रन्ति / धुटीत्येव- जनित्वा // 60 // .