________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 179 ज्ञोऽनुपसर्गात् / 3 / 3 / 96 // अतः ‘फलवति- कर्तर्यात्मनेपदम्' स्यात् / गां जानीते / फलवतीत्येव- परस्य गां जानाति // 16 // वदोऽपात् / 3 / 3 / 97 // अतः ‘फलवति कर्तर्यात्मनेपदम्' स्यात् / एकान्तमपवदते / फलवतीत्येवअपवदति परं स्वभावात् // 97 // समुदाङो यमेरग्रन्थे / 3 / 3 / 98 // एभ्यः पराद् यमेरग्रन्थविषये ‘फलवत्कर्तर्यात्मनेपदम्' स्यात् / संयच्छते व्रीहीन्, उद्यच्छते भारम्, आयच्छते भारम् / अग्रन्थ इति किम् ? चिकित्सामुद्यच्छति / फलवतीत्येव- संयच्छति // 98 // . पदान्तरगम्ये वा / 3 / 3 / 99 // 'प्रक्रान्तसूत्रपञ्चके यदात्मनेपदमुक्तं तत् पदान्तरगम्ये फलवत्कर्तरि वा' स्यात् / स्वं शत्रु परिमोहयते परिमोहयंति वा / स्वं यज्ञं यजते यजति वा / स्वां गां जानीते जानाति वा / स्वं शत्रुमपवदते अपवदति वा / स्वान् व्रीहीन् संयच्छते संयच्छति वा // 99 // . शेषात् परस्मै / 3 / 3 / 100 // 'येभ्यो धातुभ्यो येन विशेषेणाऽऽत्मनेपदमुक्तं ततोऽन्यस्मात् कर्तरि परस्मैपदम्' स्यात् / भवति, अत्ति // 100 // - परानोः कृगः / 3 / 3 / 101 // परानुपूर्वात् कृगः ‘कर्तरि परस्मैपदम्' स्यात् / पराकरोति, अनुकरोति // प्रत्यभ्यतेः क्षिपः / 3 / 3 / 102 // एभ्यः परात् क्षिपः ‘कर्तरि परस्मैपदम्' स्यात् / प्रतिक्षिपति, अभिक्षि