________________ સંસ્કૃત બીજી ચોપડી " સંસ્કૃત વાક્યો खादिरं यूपं कुर्वीत स्वर्गकामः / खादिरेणैव धै यूपेन देवाः स्वर्ग लोकमजयंस्तथैवैतघजमानः खादिरेण यूपेन स्वर्ग लोकं जयति / दुःखसंतापेन पच्यन्त इव मेऽङ्गान्युत्क्वथ्यत इव हृदयं प्लुष्यत इव दृष्टिवलतीव शरीरम / अत्र यत्प्राप्तकालं तत्करोतु भवान् / वत्स प्रसन्नोऽस्मि ते कथय किं ते प्रियं करवाणि / हे ऋत्विजोऽद्य सुत्यादिने सोमं सुनुध्वम् / कथं नाम प्रभोरादेशमुल्लङ्घयितुं शक्नुयाम। . पतैरालापेरात्मनः कार्पण्यं मापावृणुष्व / राजन्यनुरागमाविष्कुर्वतां जना यतस्तेषां संकटानि नश्येयुः। आत्मनः पुत्राणां प्रवृत्युपलब्धये दासं श्रीनगरं प्रहिणु / राजन्प्रीताः स्मः शुश्रूषया तवैतया तस्मात्सर्वैर्गुणरुपेतं पुत्रमवाप्नुहि श्रृणुत रे पौराः, अयं वसन्तसेनाघातकश्चारुदत्तो वधस्तम्भ नीयते तघदोदृशं कर्म केऽपि. कुरन्दण्डमप्येतादृशं प्राप्नुयुः / मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ / .. विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति // तस्माद्धर्म सहायार्थ नित्यं संचिनुयाच्छनैः / धर्मेण हि सहायेन तमस्त रति दुस्तरम् / पूर्व वयसि तत्कुर्याधेन वृद्धः सुखं वसेत् / यावजीवेन तत्कुर्याधेनामुत्र सुखं वसेत् // श्वः कार्यमय कुर्वीत पूर्वाह्ण चापराणिकम् / न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् / /