________________ 226 સંસ્કૃત બીજી ચોપડી સંસ્કૃત વાક્યો दुष्टाञ् शब्दान्मा प्रयुक्ष्महि म्लेच्छाश्च मा भूमेत्यध्येयं ध्याकरणम् / - ओदनं शाकांश्च मृदा अपाचरतोऽधुना सर्वान्ब्राह्मणान्भोजय / कनिष्ठं पुत्रमहमवयं पुत्रक कुसुमपुं गत्वा तत्रैकस्मिन्गृहे मया निक्षिप्त धनमास्ते तदगृहाण / मोऽगच्छत् / निवृत्य च मामब्रवीत्तात भ्रातरो मे तत्रागत्यास्मभ्यमेतद्धनं पितादादिति वदन्तः सर्वमेव तदादिषत / यत्त्वं सत्यमवादीस्तुत्तुभ्यमहमेतद्गवां शतं ददामि / त्वमात्मनः पूर्वभार्यामत्याक्षीरन्यां च पर्यणैषीरिति यदश्रौष तत्किं सत्यम् / मुग्धाकृतिरतीव प्रियश्चावयोः शिशुरमृतेति शोकविकलोऽहं भार्या च मे / परंतु किं वृथाशोकेन सत्यमेव तद्यत्कविराह / कश्चैकान्तं सुखमुपगतो दुःखमेकान्ततो वा / नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण || ऋषयो वै सरस्वत्यां सत्रमासत ।ते कवषमैलूषं सोमादनयन्दास्याः पुत्रः कितवोऽब्राह्मणः कथं ना मध्येऽदीक्षिष्टेति / साचिध्ये मामेवान्यान्सर्वाननादृत्य राजाऽयौक्षीदतोऽभियुतेन मनसा मया कार्यमनुष्ठेयम् / अस्मिन्क्षेत्रे विपुलं धान्यमवाप्सम् / अङ्गीकृतं महत्कार्य पारयितुमक्षमा क्यमुदस्राक्ष्म / . . अखिला मनोरथा मेऽफालिषुरतोऽहं सुखमस्वाप्सं न किंचिद. वेदिषम् / किं नाद्याप्यग्निरथमद्राष्ट प्रत्यहं त्रिरनेन मार्गेण स नीयते / मुक्तकेशीं मां दृष्ट्वा दुर्योधनस्य भार्या भानुमत्यहसीत्तन्मे दहति देहमित्य ब्रवीगीमं द्रौपदी /