________________ अभिज्ञानशाकुन्तलम्- [प्रथमोइव श्रूयते / यावदत्र गच्छामि / ( परिक्रम्याऽवलोक्य च- ) अये ! एतास्तपस्विकन्यकाः स्वप्रमाणाऽनुरूपैः सेचनघटेर्वालपादपेभ्यः पयो दातुमित एवाऽभिवर्तन्ते / (निपुणं निरूप्य-) अहो ! मधुरमासो दर्शनम् / शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य / दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः // 17 // वृक्षवाटिकाम् = उपवनं / दक्षिणेन = उपवनस्य दक्षिणस्यां दिशीत्यर्थः / 'अमात्यगणिकागेहोपवने वृक्षवाटिके'त्यमरः / 'एनपा द्विताया' इति द्वितीया / आलाप इव = वार्तालापशब्द इव / एताः = इमाः, तपस्विनाम् [अल्पाः कन्याः--] कन्यकाः-तपस्विकन्यकाः = मुनिबालिकाः / स्वस्य यत्प्रमाणं तस्यानुरूपैः = स्वोद्धरणयोग्यैः / स्वशक्तियोग्यैः / 'प्रमाणं मान-शास्त्रयो रिति धरणिः। सेचनस्य घटाः-सेचनघटास्तैः-सेचनघटैः = सेचनोपयोगिकलशैः। बालाश्च ते पादपाश्च-बालपादपास्तभ्यः-बालपादपेभ्यः = बालतरुपोतेभ्यः, पयः = जलं, दातुम् = प्रदातुम्, इत एव = अस्यामेव दिशि, अभिवर्त्तन्ते = आगच्छन्ति / . निपुण = बाढं. निरूप्य = दृष्ट्वा / अहो = आश्चर्यम् ! / मधुरं = मनोहारि / 'मधुरं रसवत्स्वादुप्रियेष्वि'ति विश्वः / दृश्यते यत्तत् दर्शनं = स्वरूपं / शुद्धान्तेति / शुद्धान्तेष्वपि दुर्लभं-शुद्धान्तदुर्लभम्। इदम् = ईदृशमतिसुन्दरं, सुकुमारं च / पुरो दृश्यमानं / वपुः = शरीरं / यदि आश्रमे वसति तच्छोलस्तस्यआश्रमवासिनः = वनवासिनोऽपि, जनस्य = मुनिबालिकालोकस्यापि / 'अस्तीति दे रहा है / अच्छा, पहिले यही चलूं / (कुछ आगे चलकर, सामने ओर देखकर) ये तपस्वियों की कन्याएँ अपने ही अनुरूप छोटे 2 सेचन घट (झारियाँ, कलशी) लिए हुए, पौधों में जल देने के लिए, इधर ही आ रही हैं। (अच्छी तरह से देखकर -) अहो! इनका सुन्दर रूप व आकृति बड़ी ही मनोहारिणी है / यदि-राजमहलों में भी कठिनता से मिल सकने वाला ऐसा सुन्दर स्वरूप (शरीर ) इन आश्रमवासी स्त्रियों का हो सकता है, तो यह कहना पड़ेगा 1 अयं पाठः क्वचिन्न /