________________ ऽङ्कः ] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 175 mmmmmmmmmmmmmmmmm अनसूया-पिअंबदे ! को णु उवाओ भवे, जेण अविलम्बिदं, णिहुदञ्च सहीए मणोरहं सम्पादेह्म / [प्रियंवदे ! को नु उपायो भवेद्येन अविलम्बितं, निभृतञ्च सख्या मनोरथं सम्पादयावः ?] / सप्तमीमवस्थां नीतेयं / कालक्षेपे त्वचिकित्स्यातकथं भवेत् / कामदशास्तु–'नयनप्रीतिः प्रथम, चित्तासङ्गः, ततोऽर्थसङ्कल्पः / निद्राच्छेदस्तनुता, विषयनिवृत्तिनपानाशः। उन्मादो, मूच्छो, मृतिरित्येता दशैव स्मरदशाः स्युः ॥'-इति / तत्र सखीसन्निधौ स्वेच्छाप्रकाशनानपानाशावस्था जाता | यदीदानामपि नेयमुपचरिता भवेदन्त्यास्तिस्रोऽपि कामावस्था अस्या अमङ्गलरूपा भवेयुरिति ] / अत्र पाठान्तरमप्यस्ति, तस्येत्थं व्याख्या यस्मिन् = राशि दुष्यन्ते / बद्धो भावो यया सा-बद्धभावा = बद्धानुरागा। ललामभूतः= भूषणीभूतः। प्रधानतमो वा / पौरवाणां = पुरुवंश्थानां। युक्तं = योग्यः / योग्यार्थ कमव्ययमेतत् / अभिनन्दितुम् = अनुमोदयितुं / तथा = तथैव युक्तम् / यथा भणसि = यथा त्वं वदसि / सखि ! = शकुन्तले ! दिष्टयेति हर्षे / भाग्येन / अनुरूपः = योग्यः / अभिनिवेशः = स्नेहबन्धः। अतिमुक्तलतां% वासन्तीलताम् / पल्लवितां = किसलयवतीं / जातानुरागां वा / सहकारमन्तरेण = रसालपादपं विना / सहते = रञ्जयति / स्वीकुरुते इति वा / वासन्तीलतासमानायाः शकुन्तलाया जातरागायाः सहकार इवानुरूपे दुष्यन्ते भक्तिरित्याशयः / विशाखे = तारकाविशेषयुगलम् / चन्द्रलेखाम् = इन्दुलेखाम् / अनुवर्त्तते = अनुगच्छतः / विशाखे = सख्यौ, चन्द्रलेखां = शकुन्नलाम् / अनुवर्त्तते = तदुक्तं स्वीकुरुतइति युक्तमेवेत्यर्थः / अत्र सख्योविंशाखासादृश्य, शकुन्तलायाश्चन्द्रलेखासादृश्य बोध्यम् / सखीभ्यामस्याः शकुन्तलाया अभिलाषोऽनुमत इति युक्तमेवैतदित्याशयः] / अविलम्बितं = त्वरितं / निभृतं = निगूढं, सविनयञ्च / मनोरथं = दुष्यन्ततो बहुतर दूर पहुंच चुकी है / ( बहुत बढ़ चुकी है ) / अतः अब यह प्रियसङ्गम में होनेवाले ज्यादा विलम्बको सहन करने में असमर्थ है / अतः शीघ्र ही इसके प्रिय को इससे मिलाना चाहिए। - 'अनसूया-हे प्रियंवदे ! ऐसा कौन सा उपाय है, जिससे हम अपनी सखी के इस मनोरथ को (दुष्यन्त के साथ समागम को) जल्दी से और गुप्तरूप से सिद्ध कर सके ? /