________________ 128 अभिज्ञानशाकुन्तलम् [द्वितीयोअनाघातं पुष्पं, किसलयमलूनं कररुहै रनाविद्धं रत्नं, मधु नवमनास्वादितरसम् / अखण्डं पुण्यानां फलमिव च तद्रूपमनघं, न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ! // 11 // इदम् = इत्थं, मे मनसि = चित्ते, वर्त्तते = तिष्ठति / ममैवं विचारो जायते / स्वविचारमेवाह-अनाघ्रातमिति / न आघातम्-अनाघातम् = अकलितघ्राणसम्पर्कम् / अकृतोपभोगं / पुष्पं = पुष्पमिव / प्रसूनमिव / एतेन परोपभोगसंमाऽमावादखण्डितसौन्दर्यामोदशालित्वं . तस्या ध्वन्यते / किञ्च-कररु है: = नखैः / अलूनम् = अच्छिन्नं / किसलयं = किसलयमिव / पल्लवमिव / एतेनाऽक्लान्तत्वमुपभोगवैरूप्यशून्यत्वञ्च वनितम् / किञ्च-अनाविद्धम् = अखण्डितं, दोषलेशाऽनाकलितं वा / रत्नं = रत्नमिव / किञ्च-न आस्वादितो रसो यस्य तत्-अनास्वादितरसम् = अगृहीतास्वादं / अनुच्छिष्टं / नवं = प्रत्यग्रं / सद्यःसमानीतं / तेन रजोदोषलेशसम्पर्कराहित्य, हृद्यत्वञ्च ध्वन्यते / मधु = मधु इव / क्षौद्रमिव / किञ्चपुण्यानां = सुकृतानाम् / अखण्डं = सम्पूर्ण, फलमिव = परिपाक इव / सुदुर्लभं / तेनाऽत्यन्ताभिलषणीयता तस्या व्यज्यते। च = किञ्च / अनघं = निष्कलङ्क / कलकलेशशून्यं / निर्दोष / मनोज्ञम् / 'अनघो निर्मलाऽपापमनोज्ञेषु च भेदव'दिति विश्वः / तस्याः = शकुन्तलाया रूपं = सौन्दर्यम् / लावण्यञ्च / इह = जगति / के भोक्तारं = के भाग्यवन्तं भोगशीलं पुरुषम् / विधिः = दैवम् / उपस्थास्यति = उपस्थापयिष्यति / अन्तर्भावितण्यर्थः। उपनेष्यति / कस्य वा भोगाय कल्पयिष्यति / इति न जाने = नाऽहं वेद्मि ? [ मालोपमा / श्रुतिवृत्यनुप्रासौ / परिकरालङ्कारश्च / श्लोकाभ्यामाभ्यां गुगकीर्तनं नाम नाट्यलक्षणञ्च दर्शितम् 'गुणानां कीर्तनं यत्त तदेव गुण कीर्तन'मिति विश्वनाथोक्तेः // 11 // यह-अछूता-बेसूंघा हुआ-पुष्प, नखों से नहीं काटा गया कोमल-पल्लव, विना बीन्धा हुआ अखण्डित-रत्न, किसीसे भी अनास्वादित नवीन-मधु ( सहत ), पुण्यों का अखण्डित-फल, इसका निर्दोष यह रूप-लावण्य, किस भाग्यशाली के उपयोग में विधाता लाएंगे ? / अर्थात् इसका कौन स्वामी होगा ? / यह किस भाग्यशाली की अर्धाङ्गिनी बनेगी-मैं यही सोच विचार रहा हूँ // 11 //