________________ 126 अभिज्ञानशाकुन्तलम् [द्वितीयोविदपकः-तं क्खु रमणीअं णाम, जं भअदो बि बिह्म उत्पादेति ! / [ तत्खलु रमणीयं नाम, यद्भवतोऽपि विस्मयमुत्पादयति !] / राजा-वयस्य ! किं बहुनाचित्ते निवेश्य पारेकल्पितसर्वयोगान्, रूपोच्चयेन विधिना विहिता कृशाङ्गी / स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे, धातुर्विभुत्वमनुचिन्त्य, वपुश्च तस्याः॥१०॥ तत् = तद्वस्तु, रमणीयं नाम = अवश्यमेव रमणीयं भवेत्, विस्मयं = कौतुकम्, उत्पादयति = जनयति / त्वत्कौतुकात्सौन्दर्यातिशयशालिनी सेत्यनुमिनोमीति भावः / बहुना = अनल्प जल्पनेन, किं = किं प्रयोजनम् / चित्त इति / धातुः = विधेः, विभुत्वं = निर्माणकौशलं, तस्याः = शकुन्तलायाः, वपुश्च = अतुलसौन्दर्यसारसमुज्ज्वलं , शरीरञ्च, अनुचिन्त्य = विभाव्य, विमृशतो, मे = मम,-विधिना = ब्रह्मणा, परिकल्पिताश्च ते सर्वे योगाश्च, तान्परिकल्पितसर्वयोगान् = अद्य याबद्ब्रह्मणा ये ये निर्माण योगा अनुभूतास्तान् सर्वानेव निर्माणसमयानुभूताविशिष्टसिद्धयोगान्, चित्ते = स्वान्ते, निवेश्य = विभाव्य, बुद्धयुपारूढान् कृत्वा, रूपाणामुच्चयः, तेन-रूपोच्चयेन = सौन्दर्यलावण्यादिराशिना / (विधिना = ब्रह्मणा), विहिता = समुत्पादिता, कृशाङ्गी = तनुतरगात्रयष्टिः, अपरा = अत्युत्कृष्टा = अद्य यावदनिर्मिता. स्त्री-रत्नमिव,-स्त्रीरत्नं, तस्य सृष्टिः-स्त्रीरत्नसृष्टिः = प्रमदारत्नसृष्टिः, सा = सेयं शकुन्तला-इत, मे प्रतिभाति = प्रतिभासते / विदषकतो वह अवश्य ही अतिसुन्दरी होगी, जो आपके मन में भी इतना विस्मय उत्पन्न कर रही है / राजा-मित्र! ज्यादा क्या कहूँ-ब्रह्मा की सब कृतियों को, तथा उस सुन्दरी ( शकुन्तला ) के सुन्दर शरीर को देखने से यही मालूम होता है, 1 'चित्रे निवेश्य परिकल्पितसत्त्वयोगा, रूपोच्चयेन विधिना मनसा कृता नु' पा० /