________________ अभिज्ञानशाकुन्तलम् [प्रथमो केचित्त-'या सृष्टिः स्रष्टु'रित्यादि पद्यं 'रङ्गद्वार मेव, न तु नान्दी। तदुक्तं भरतनाट्यशास्त्रे'यस्मादभिनयो पत्र प्राथम्यादवतार्यते। . .. रङ्गद्वारमतो ज्ञेयं, वागङ्गाभिनयात्मकम् // इति / 'नान्दी' तु रङ्गद्वारात्पूर्वमेव नटैरेव सम्भूय बहिरेव रङ्गात् क्रियते / अत एव नाट्यशास्त्रे'नान्दी, शुष्कावकृष्टा च, रङ्गद्वारं तथैव च / चारी चैव ततः कार्या, महाचारी तथैव च // ' इत्यादिना रङ्गद्वारा. त्पूर्वमेव 'नान्दी' परिगणिता / इत्थञ्च 'या सृष्टि'रित्यादि मङ्गलं-रङ्गद्वाराख्यं पूर्वरङ्गस्याङ्गम् / नान्दी तुं-इतो रङ्गद्वारात्पूर्वमेव, नटैः सम्भूयैव बहिः कृता, ग्रन्थे च विस्तरभयान्नोपनिबद्धेति प्राहुः / ' तन्मते-नान्द्यन्ते = नटमण्डलकृतनान्दीपाठसमाप्त्यन्तरं, सूत्रधारः,-'या सृष्टिः सृष्टुरायेति मङ्गलश्लोकं रङ्गद्वाराख्यं पूर्वरङ्गाऽङ्गभूतं-पपाठेति योजनीयम् / इत्यञ्च केचित्-'या सृष्टि' रिति पद्यं नान्दी मन्यन्ते, केचिच्च 'रङ्गद्वारमिति सङक्षेपः। अस्य श्लोकस्य नान्दीत्वमिति पक्षे नान्द्यते='नान्दी पाठानन्तरं, सूत्रधारः= नटमण्डलपतिः ( सूत्रधारसहशो वा नटः स्थापकनामा ) 'नाट्योपकरणादीनि 'सूत्र'मित्यभिधीयते / सूत्रं धारयतीत्यर्थे 'सूत्रधारो' निगद्यते' // इति सूत्रधारलक्षणम् / 'रङ्गाद्वहिर्निर्गतः' इति शेषः / तदुच्यते 'पूर्वरङ्गं विधायैव सूत्रधारो निवर्त्तते // ' इति / विस्तरेण सूत्रधारलक्षणं तु मातृगुप्ताचार्या आहुः 'चतुरातोद्यनिष्णातोऽनेकभूषासमावृतः / नानाभाषणतत्त्वज्ञो, नीतिशास्त्रार्थतत्त्ववित् / / . नानागतिप्रचारज्ञो, रसभावविशारदः। नाट्यप्रयोगनिपुणो, नानाशिल्पकलान्वितः //