________________ 650 ] [ काव्यषटकं तारातति/जमिवादमाद मियं निरष्ठेवि यदस्थियूथम् / तनिष्कुलाकृत्य रवि त्वगेषा. संध्योज्झिता पाकिमदाडिमं वा / / संध्यावशेषे धृतताण्डवस्य चण्डीपतेः पत्पतनाभिघातात् / कैलासशैलस्फटिकाश्मखण्डै रमण्डि पश्योत्पतयालुभिद्यौः // 15 / / इत्थं हिया वर्णनजन्मनेव संध्यामपक्रान्तवतीं प्रतीत्य / तारातमोदन्तुरमन्तरिक्ष निरीक्षमाणः स पुनर्बभाषे / / 16 / / रामेषुमर्मवणनातिवेगा- . द्रत्नाकर: प्रागयमुत्पपात / ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनभ्र! / / 17 / / मोहाय देवाप्सरसां विमुक्ता ___ स्ताराः शराः पुष्पशरेण शके / पञ्चास्यवत्पञ्चशरस्य नाम्नि प्रपञ्चवाची नतु पञ्चशब्दः // 18 / / नभोनदीकूलकुलायचक्री कुलस्य नक्तं विरहाकुलस्य / दृशोरपां सन्ति पृषन्ति ताराः पतन्ति तत्संक्रमणानि धाराः // 19 / / 25 अमूनि मन्येऽमरनिर्भरिण्या यादांसि गोधा मकरः कुलीरः / तत्पूरखेलत्सुरभीतिदूरमग्नान्यधः स्पष्टमितः प्रतीमः // 20 //