________________ 642) [ काव्यषट्कं स्तम्बेरमीव कृतसश्रुतिमूर्धकम्पा ___वीणा विचित्रकरचापलमाभजन्ती / / 17 / / प्राकृष्य सारमखिलं किमु वल्लकीनां __ तस्या मृदुस्वरमसजि न कण्ठनालम् / तेनान्तरं तरलभावमवाप्य वीणा ह्रीणा न कोणममुचकिमु वालयेषु / / 128 / / तद्दम्पतिश्रुतिमधून्यथ चाटुगाथा वीणास्तथा जगुरतिस्फुटवर्णबन्धम् / इत्थं यथा वसुमतीरतिगृह्यकस्ता: कीरः किरन्मुदमुदोरयति स्म विश्वाः / / 126 / / अस्माकमुक्तिभिरवैष्यथ एव बुद्धे धिं युवामतिमती स्तुमहे तथापि / ज्ञानं हि वागवसरावचनाद्भवद्भया मेतावदप्यनवधारितमेव न स्यात् / / 130 / / भूभृद्भवाङ्कभुविराजशिखामणेः सा त्वं चास्य भोगसुभगस्य समः क्रमोऽयम् / यन्नाकपालकलनाकलितस्य भतु - रत्रापि जन्मनि सती भवती स भेदः / / 131 / / एषा रतिः स्फुरति चेतसि कस्य यस्याः सूते रति द्युतिरथ त्वयि वा तनोति / त्रैयक्षवीक्षणखिलीकृतनिर्जरत्व सिद्धायुरध्वमकरध्वजसंशयं कः // 132 / / एतां घरामिव सरिच्छविहारिहारा मुल्लासितस्त्वमिदमाननचन्द्रभासा। बिभ्रद्विभासि पयसामिव राशिरन्त दिश्रियं जनमनःप्रियमध्यदेशाम् / / 133 / / 25