________________ 10 (5) नैषधीयचरितम् :: एकविंशः सर्गः ] [641 भीमात्मजापि कृतदेवतभक्तिपूजा . पत्यौ च भुक्तवति भुक्तवती ततोऽनु / तस्याङ्कमकुरिततत्परिरिप्समध्य मध्यास्त भूषणभरातिभरालसाङ्गी // 121 / / तामन्वगादशितविम्बविपाकचञ्चोः स्पष्टं शलाटुपरिणत्युचितच्छदस्य / कीरस्य कापि करवारिरुहे वहन्ती सौन्दर्यषुञ्जमिव पञ्जरमेकमाली // 122 / / कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन / तिर्यग्धृतस्फटिकदण्डकवतिनका . तामन्ववर्तत पिकेन मदाधिकेन // 123 / / शिष्याः कलाविधिषु भीमभुवो वयस्या . वीणामृदुक्वणनकर्मणि याः प्रवीणाः / प्रासीनमेनमुपवीणयितु ययुस्ता - गन्धर्वराजतनुजा मनुजाधिराजम् / / 124 / / तासामभासत कुरङ्गदृशां विपश्ची . किंचित्पुरः कलितनिष्कलकाकलीका। भैमीतथामधुस्कण्ठलतोपकण्ठे * शब्दायितु प्रथममप्रतिभावतीव // 125 / / . सा यद्धृताखिलकलागुणभूमभूमी .. भैमीतुलाधिगतये स्वरसंगतासीत् / तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनापि विदिता परिवादिनीति / / 126 / / 25 नादं निषादमधुरं ततमुज्जगार - साम्यासभागवनिभृत्कुलकुञ्जरस्य /