________________ 614 ] { काब्यषट्कं // 20 // विंशः सर्गः॥ सौधाद्रिकुट्टिमानेकधातुकाघित्यकातटम् / स प्राप रथपायोभृद्वातजातजवो दिवः ततः प्रत्युदगाभमो कान्तमायान्तमन्तिकम् / 5 प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम् // 2 / / स दूरमादरं तस्या वंदने मदनकदृक् / दृष्टमन्दाकिनोहेमारविन्दश्रीरविन्दत / / 3 / / तेन स्वर्देश संदेशमर्पित सा करोदरे / बभ्राजे बिभ्रती पद्म पद्मवोन्निद्रपद्मदृक् प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ / एकलक्षतया दध्यो यत्तमेकवराटकम् प्रेयसाऽवादि सा तन्वि ! त्वदालिङ्गनविघ्नकृत् / समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते // 6 / / क्वतावान्नर्ममर्माविद्विद्यते विधिरद्य ते / इति तं मनसा रोषादवोचद्वचसा न सा / / 7 / / क्षणविच्छेदकादेव विधेर्मग्वे ! विरज्यसि / विच्छेत्ता न चिरं त्वेति हृदाह स्म तदा कलि: / / 8 / / सावज्ञेवाथ सा राज्ञः सखी पद्ममुखीमगात् / लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव 20 ममासावपि मा संभूत्कलिद्वापरवत्परः / इतीव नित्यसो तां स त्रेतां पर्यतूतुषत् // 10 / / क्रियां प्रालेतनी कृत्वा निषेधन्पाणिना सखीम् / कराभ्यां पृष्ठगस्तस्या न्यमिमीलदसौ दृशौ // 11 / / दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः / 25 प्रसतिभ्यामिवायामं मापयन्प्रेयसीडशोः // 12 // // //