________________ 606 ) [ काव्यषटकं निशि निरशनाः क्षीरस्यन्तः क्षुधाऽश्वकिशोरका मधुरमुधुरं हेषन्ते ते विलोलितवालधि / तुरगसमजः स्थानोत्थायं क्वणन्मणिमन्थभू घरभवशिलालेहायेहाचणो लवणस्यति / / 18 / / उडपरिषद: किं नाहत्वं निश: किमु नौचिती पतिरिह न यदृष्टस्ताभ्यां गणेयरुचीगणः / स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मन__ श्छवि यदनयोविच्छेदेऽपि द्रुतं बत न द्रुतम् / / 16 / / अरुणकिरणे वह्नौ लाजानुडूनि जुहोति या 10 __परिणयति तां संध्यामेतामवैमि मणिदिवः / इयमिव स एवाग्निभ्रान्ति करोति पुरा यतः __ करमपि न कस्तस्यैवोत्कः सकौतुकमोक्षितुम् / / 20 / / रतिरतिपतिद्वैतश्रीको धुरं' बिभृमस्तरां प्रियवचसि यन्नग्नाचार्या वदामतमां ततः / अपि विरचितो विद्मः पुण्यद्रुहः खलु नर्मणः परुषमरुषे नेकस्यै वामुदेति मुदेऽपि तत् / / 21 // भव लघुयुताकान्तः संध्यामुपास्स्व तपोमल ! त्वरयति कथं संध्येयं त्वां न नाम निशानुजा / द्युतिपतिरथावश्यकारी दिनोदयमासिता हरिपतिहरित्पूर्णभ्रूणायिता कियतः क्षणान् / / 22 / / मुषितमनसश्चित्रं भैमि ! त्वयाद्य कलागृहै निषधवसुधानाथस्यापि श्लथश्लथता विधौ / अजगणदयं सन्ध्यां वन्ध्यां विधाय न दूषणं __नमसितुमना यन्नाम स्यान्न संप्रति पूषणम् / / 23 / / 25 न विदुषितरा कापि त्वत्तस्ततो नियतक्रिया पतनदुरिते हेतुर्भतु मनस्विनि ! मा स्म भूः / 20