________________ (5) नैषधीयचरितम् :: एकोनविंशः सर्गः ) [605 अपसरदरिध्वान्तप्रत्यग्वियत्पथमण्डली लगनफलदश्रान्तस्वर्णाचल भ्रमविभ्रमः // 11 // नभसि महसां ध्वान्तध्वाक्षप्रमापणपत्रिणा___ मिह विहरणैः श्यनंपातां रवेरवधारयन् / शशविशसन त्रासादाणामयाच्चरमां शशी तदधिगमनात्तारापारापतैरुदडीयत // 12 // भृशमबिभरुस्तारा हाराच्च्युता इव मौक्तिकाः सुरसुरतजक्रोडाचूनाइय सद्वियदङ्गणम् / बहुकरकृतात्प्रातःसंमार्जनादधुना पुन निरुपधिनिजावस्थालक्ष्मीविलक्षणमीक्ष्यते // 13 // प्रथममुपहत्यार्घ तारैरखण्डिततण्डुलै. स्तिमिरपरिषद पर्वावलीशबलीकृतैः / प्रथ रविरुचां ग्रासातिथ्यं नभः स्वविहारिभिः सृजति शिशिरक्षोदश्रेणीमयैरुदसक्तुभिः // 14 // 15 . असुरहितमप्यादित्योत्थां विपत्तिमुपागतं ___दितिसुतगुरुः प्राणर्योक्तुं न कि कचवत्तमः / पठति लुठती कण्ठे विद्यामयं मृतजीवनी .. यदि न वहते संध्यामोनवतव्ययभीरुताम् // 15 / / उदयशिखरिप्रस्थान्यह्रारणेऽत्र निशः क्षणे दधति विहरत्पूषाण्यूष्मद्रुताश्मजतुस्रवान् / उदयदरुणप्रह्वीभावादरादरुणानुजे मिलति किमु तत्सङ्गाच्छङ्कया नवेष्टकवेष्टना / / 16 / / रविरथहयानश्वस्यन्ति ध्रुवं वडवा बल प्रतिबलबलावस्थायिन्य: समीक्ष्य समीपगान् / 25 निजपरिवृद्धं गाढप्रेमा रथाङ्गविहंगमी स्मरशरपराधीनस्वान्ता वृषस्यति संप्रति / / 17 / /