SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ रघुवंशे दसमः सर्गः ] [ 71 तस्मै कुशलसंप्रश्नव्यजितप्रीतये सुराः / भयमप्रलयोद्वेलादांचख्युर्नैऋतोदधेः / / 34 / / अथ वेलासमासन्नशैलरन्ध्रानुनादिना / स्वरेणोवाच भगवान्परिभूतार्णवध्वनिः / / 35 / / पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता / बभूव कृतसंस्कारा चरितार्थैव भारती / / 36 / / बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता। निर्यातशेषा चरणाद्गगेवोर्ध्वप्रवर्तिनी // 37 / / जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ / 10 अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ // 38 / / विदितं तप्यमानं च तेन मे भूबनत्रयम् / अकामोपनतेनेव साधोह दयमेनसा // 36 / / कार्येषु चैककार्यत्वादभ्योऽस्मि न वज्रिणा / स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते // 40 // 15 स्वासिधारापरिहृतः कामं चक्रस्य तेन मे / स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा / / 41 / / स्रष्टुवरातिसर्गात्तु मया तस्य दुरात्मनः / प्रत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः / / 42 / / धातारं तपसा प्रीतं ययाचे स हि राक्षसः / 20 दैवात्सर्गादवध्यत्वं मर्येष्वास्थापराङ्मुखः // 43 / / सोऽहं दाशरथिभूत्वा रणभूमेर्बलिक्षमम् / करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम् / / 44 / / अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः / . मायाविभिरनालीढमादास्यध्वे निशाचरैः // 45 / / 25 वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि / पुष्पकालोकसंक्षोभं मेघावरणतत्पराः / / 46 / /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy