________________ (5) नैषधीयचरितम् :: अष्टादशः सर्गः ] [863 नायकस्य शयनादहम खे निर्गता मुदमुदीक्ष्य सुध्रुवाम् / प्रात्मना निजनवस्मरोत्सव स्मारिणीयमहणीयत स्वयम् // 67 // तां मिथोऽभिदधतीं सखीं प्रिय स्यात्मनश्च स निशाविचेष्टितम् / पार्श्वगः सुरवरात्पिधां दधद् / . दृश्यतां श्रुतकथो हसन्गतः // 68 / / चक्रदारविरहेक्षणक्षणे बिभ्यती धवहसाय साभवत् / 10 क्वापि वस्तुनि वदत्यनागतं चित्तमुद्यदनिमित्तवैकृतम् // 66 / / चुम्बितं न मुखमाचकर्ष यत् / पत्युरन्तरमृतं ववर्ष तत् / सा नुनोद न भुज. तदपितं . तेन तस्य किमभून्न तर्पितम् // 70 / / 15 नीतयोः स्तनपिधानतां तया दातुमाप भुजयोः करं परम् / . बीतबाहुनि ततो हृदंशुके केवलेऽप्यथ स तत्कुचद्वये / / 71 / / याचनान्न ददती नखक्षतं तां विधाय कथयाऽन्यचेतसम् / वक्षसि न्यसितुमात्ततत्करः स्वं विभिद्य मुमुदे स तन्नखैः / / 72 / / स प्रसह्य हृदयापवारकं हर्तुमक्षमृत सुभ्रुवो बहिः / ह्रीमयं तु न तदीयमान्तरं तद्विनेतुमभवत्प्रभुः प्रभुः / / 73 / / सा स्मरेण बलिनाऽप्यहापिता ह्रीक्षमे भृशमशोभताबला / भाति चापि वसनं विना नतु व्रीडधैर्यपरिवर्जनैर्जनः / / 74 / / पात्थ नेति रतयाचिनं न यन्मामतोऽनुमतवत्यसि स्फुटम् / इत्यमुं तदभिलापनोत्सुकं धूनितेन शिरसा निरास सा // 75 / / 25 या शिरोविधुतिराह नेति ते - सा मया न किमियं समाकलि /