________________ 862 ] [ काव्यषटकं पार्श्वगं प्रियमपास्य सा हिया .. तं हृदिस्थितमिवालिलिङ्ग तत् / / 58 / / अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते / इत्यसिस्वददुपांशुकाकुवाक्सोपमर्दहठवृत्तिरेव तम् / / 56 / / 5 पोततावकमुखासवोऽधुना भृत्य एष निजकृत्यमर्हति / तत्करोमि भवदूरुमित्यसौ तत्र संन्यधित पाणिपल्लवम् / 60 / चुम्बनादिषु बभूव नाम किं तद्वृथा भियमिहापि मा कृथाः / इत्युदोर्य रसनावलिव्ययं निर्ममे मृगद्दशोऽयमादिमम् / / 61 / / अस्तिवाम्यभरमस्तिकौतुकं __सास्तिधर्मजलमस्तिवेपथु / अस्तिभीति रलमस्तिवाञ्छितं प्रापदस्तिसुखमस्तिपीडनम् // 62 / / ह्रीस्तवेयमुचितैव यन्नवस्तावके मनसि मत्समागमः / तत्तु निस्त्रपमजस्रसंगमाद्वीडमावहति मामकं मनः // 63 / / इत्युपालभत संभुजिक्रिया . रम्भविघ्नघनलज्जितैजिताम् / तां तथा स चतुरोऽथ सा यथा त्रप्तुमेव तमनु त्रपामयात् / / 64 // बाहुवक्रजघनस्तनाघ्रितद्व धगन्धरतसंगतानतीः / इच्छ्रुत्सुकजने दिनेऽस्मि ते वीक्षितेति समकेति तेन सा // 65 / / प्रातरात्मशयनाद्विनिर्यतीं संनिरुध्य यदसाध्यमन्यदा / 25 तन्मुखार्पणमुखं सुखं भुवो . . जम्भजित्क्षितिशचीमचीकरत् // 66 / / 15