________________ 888 ] [ काव्यषट्कं तत्र सौधसुरभूधरे ययो राबिरासुरथ कामकेलय: / ये महाकविभिरप्यवीक्षिताः पांसुलाभिरपि ये न शिक्षिताः // 26 / / पौरुषं दधति योषिता नले स्वामिनि श्रिततदोयभावया / यूनि शैशवमतीर्णया कियत् प्रापिभीमसूतया. न साध्वसम् / / 30 / / दूत्यसंगतिगतं यदात्मनः प्रागशिश्रवदियं प्रियं गिरः / तं विचिन्त्य विनयव्ययं ह्रिया न स्म वेद करवाणि कोदृशम् / / 31 / / यत्तया सदसि नैषधः स्वयं प्राग्वतः सपदि वीतलज्जया / तन्निजं मनसिकृत्य चापलं सा शशाक न विलोकितुं नलम् / / 32 / / पासने मणिमरीचिमांसले यां दिशं स परिरभ्य तस्थिवान् / तामसूयितवतीव मानिनी न व्यलोकयदियं मनागपि // 33 // हीसरिन्निजनिमज्जनोचित मौलिदूरनमनं दघानया / . द्वारि चित्रयुवतिश्रिया तया भर्तृहूतिशतमश्रुतीकृतम् // 34 / / वेश्म पत्युरविशन्न साध्वसा द्वेशितापि शयनं न साऽभजत् / ||34|| 25