________________ रघुवंशे दशमः सर्गः ] [ 66 श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले / अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे / / 8 // प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् / दिवसं शारदमिव प्रारम्भसुखदर्शनम् / / 9 // 5 प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् / कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा / / 10 / / बाहुभिविटपाकारैदिव्याभरणभूषितैः / आविर्भूतमपां मध्ये पारिजातमिवापरम् / / 11 / / दैत्यस्त्रीगण्डलेखानां भदरागविलोपिभिः / 10 हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् / / 12 // मुक्तशेषविरोधेन कुलिशवणलक्ष्मणा / उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता / / 13 / / योगनिद्रान्तविशदैः पावनैरवलोकनैः / भृग्वादीननुगृहन्तं सौखशायनिकानृषीन् / / 14 / / 15 प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् / अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् / / 15 / / नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते / अथ विश्वस्य संहत्रे तुभ्यं त्रेधास्थितात्मने / / 16 / / रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते / देशे देशे गुणेष्वेवमवस्थास्त्वम विक्रियः // 17 / / अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः / अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् / / 18 / / हृदयस्थमना सन्नमकामं त्वां तपस्विनम् / दयालुमनघस्पृष्टं पुराणमजरं विदुः / / 19 // 25 सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः / सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् / / 20 / /